ओंकारेश्वर महात्म्यम | Omkareshvara MahatmyamIt takes 1 minutes... to read this article !

ॐकारेश्वरमहात्म्यम् एक पवित्र संस्कृत ग्रंथ है जिसमें भगवान शिव के ज्योतिर्लिंग स्वरूप ॐकारेश्वर की महिमा, उत्पत्ति और आध्यात्मिक महत्व का वर्णन किया गया है। यह ग्रंथ शिवभक्तों के लिए अत्यंत श्रद्धा एवं ज्ञान का स्रोत है तथा नर्मदा तट स्थित पवित्र ॐकारेश्वर तीर्थ की महिमा को विस्तार से प्रस्तुत करता है।

ॐकारेश्वरमहात्म्यम्

पार्वती –
महादेवमहानन्दकरुणामृतसागर ।
श्रुतमुत्तममाख्यानं महाकालगणस्य च ॥ २॥

किं वान्यत् प्रीतिजनकं क्षेत्रमस्ति महेश्वर ।
क्षेत्राणां त्वं पतिः शम्भो विशिष्टं वक्तुमर्हसि ॥ ३॥

ईश्वरः –
क्षेत्रमस्त्येकमुत्कृष्टमुत्फुल्लकमलानने ।
ओङ्कारं नाम विमलं कलिकल्मषनाशनम् ॥ ४॥

तत्र शैववरा नित्यं निवसन्ति सहस्रशः ।
ते सर्वे मम लिङ्गार्चां कुर्वन्त्येव प्रतिक्षणम् ॥ ५॥

भासिताभासितैर्नित्यं शान्ता दान्ता जितेन्द्रियाः ।
रुद्राक्षवरभूषाढ्या भालाक्षान्यस्तमानसाः ॥ ६॥

तत्रास्ति सरितां श्रेष्ठा लिङ्गसङ्गतरङ्गिता ।
नर्मदा शर्मदा नित्यं स्नानात्पानावगाहनात् ॥ ७॥

पापौघसङ्घभङ्गाढ्या वातपोतसुशीतला ।
तत्रास्ति कुण्डमुत्कृष्टमोङ्काराख्यं शुचिस्मिते ॥ ८॥

तत्कुण्डदर्शनादेव मल्लोके निवसेच्चिरम् ।
तत्कुण्डोदकपानेन हृदि लिङ्गं प्रजायते ॥ ९॥

भावाः पिबन्ति तत्कुण्डजलं शीतं विमुक्तये ।
तृप्तिं प्रयान्ति पितरः तत्कुण्डजलतर्पिताः ॥ १०॥

सदा तत्कुण्डरक्षार्थं गणाः संस्थापिता मया ।
कुण्डधारप्रभृतयः शूलमुद्गरपाणयः ॥ ११॥

गजेन्द्रचर्मवसना मृगेन्द्रसमविक्रमाः ।
हरीन्द्रानपि ते हन्युर्गिरीन्द्रसमविग्रहाह ॥ १२॥

धनुःशरकराः सर्वे जटाशोभितमस्तकाः ।
अग्निरित्यादिभिर्मन्त्रैर्भस्मोद्धूलितविग्रहा ॥ १३॥

सङ्ग्राममुखराः सर्वे गणा मेदुरविग्रहाः ।
कदाचिदननुज्ञाप्त तान् गणान् मददर्पितः ॥ १४॥

अप्सरोभिः परिवृतो मरुतां पतिरुद्धतः ।
आरुह्याभ्रमुनाथं तं क्रीडितुं नर्मदाजले ॥ १५॥

समाजगाम त्वरितः शच्या साकं शिवे तदा ।
तदा तं गणपाः क्रुद्धाः सर्वे ते ह्यतिमन्यवः ॥ १६॥

सगजं पातयन्नब्धौ शच्या साकं सुरेश्वरम् ।
सुरांस्तदा सवरुणान् बिभिदुः पवनानलान् ॥ १७॥

निस्त्रिंशवरधाराभिः सुतीक्ष्णाग्रैः शिलीमुखैः ।
मुद्गरैर्बिभिदुश्चान्ये सवाहायुधभूषणान् ॥ १८॥

विवाहनांस्तदा देवान् स्रवद्रक्तान् स्खलत्पदान् ।
कान्दिशीकान् मुक्तकेशान् क्षणाच्चक्रुर्गणेश्वराः ॥ १९॥

अप्सरास्ता विकन्नराः रुदन्त्यो मुक्तमूर्धजाः ।
हाहा बतेति क्रन्दन्त्यः स्रवद्रक्तार्द्रवाससः ॥ २०॥

तथा देवगणाः सर्वे शक्राद्या भयकम्पिताः ।
ओङ्कारं तत्र तल्लिङ्गं शरणं जग्मुरीश्वरम् ॥ २१॥

॥ इति शिवरहस्यान्तर्गते शिवपार्वतीसंवादे ओङ्कारेश्वरमहात्म्यम् ॥

– ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः ७। २-२१॥

हमारी एडिटोरियल टीम अनुभवी वैदिक एवं तांत्रिक साधकों का एक समर्पित समूह है, जिन्होंने वर्षों तक वेद, तंत्र और प्राचीन शास्त्रों का गहन अध्ययन किया है। इन ग्रंथों में वर्णित साधनाओं का विधिवत पुरश्चरण कर, व्यावहारिक अनुभव के साथ ज्ञान को आत्मसात किया गया है। Sadhanas.in पर प्रकाशित प्रत्येक लेख और साधना शुद्ध रूप से प्राचीन शास्त्रों एवं प्रमाणिक ग्रंथों के अध्ययन पर आधारित है, ताकि साधकों को प्रामाणिक, सुरक्षित और सही मार्गदर्शन प्राप्त हो सके।

error: Content is protected !!