Sri Shankara Bhagavatpadacharya Stuti: श्री शंकर भागवतमठाचार्य स्तुति एक पवित्र संस्कृत स्तोत्र है जिसमें आदि शंकराचार्य (भगवद्पादाचार्य) की महिमा, ज्ञान, अद्वैत दर्शन और भक्ति-भाव का गीतात्मक वर्णन किया गया है। यह स्तुति भक्तों को आध्यात्मिक ज्ञान, शांति और ईश्वरीय अनुग्रह का अनुभव कराती है।
श्री शङ्करभगवत्पादाचार्य स्तुतिः
मुदा करेण पुस्तकं दधानमीशरूपिणं
तथाऽपरेण मुद्रिकां नमत्तमोविनाशिनीम् ।
कुसुम्भवाससावृतं विभूतिभासिफालकं
नताऽघनाशने रतं नमामि शङ्करं गुरुम् ॥ १
पराशरात्मजप्रियं पवित्रितक्षमातलं
पुराणसारवेदिनं सनन्दनादिसेवितम् ।
प्रसन्नवक्त्रपङ्कजं प्रपन्नलोकरक्षकं
प्रकाशिताद्वितीयतत्त्वमाश्रयामि देशिकम् ॥ २
सुधांशुशेखरार्चकं सुधीन्द्रसेव्यपादुकं
सुतादिमोहनाशकं सुशान्तिदान्तिदायकम् ।
समस्तवेदपारगं सहस्रसूर्यभासुरं
समाहिताखिलेन्द्रियं सदा भजामि शङ्करम् ॥ ३
यमीन्द्रचक्रवर्तिनं यमादियोगवेदिनं
यथार्थतत्त्वबोधकं यमान्तकात्मजार्चकम् ।
यमेव मुक्तिकाङ्क्षया समाश्रयन्ति सज्जनाः
नमाम्यहं सदा गुरुं तमेव शङ्कराभिधम् ॥ ४
स्वबाल्य एव निर्भरं य आत्मनो दयालुतां
दरिद्रविप्रमन्दिरे सुवर्णवृष्टिमानयन् ।
प्रदर्श्य विस्मयाम्बुधौ न्यमज्जयत् समाञ्जनान्
स एव शङ्करस्सदा जगद्गुरुर्गतिर्मम ॥ ५
यदीयपुण्यजन्मना प्रसिद्धिमाप कालटी
यदीयशिष्यतां व्रजन् स तोटकोऽपि पप्रथे ।
य एव सर्वदेहिनां विमुक्तिमार्गदर्शकः
नराकृतिं सदाशिवं तमाश्रयामि सद्गुरुम् ॥ ६
सनातनस्य वर्त्मनः सदैव पालनाय यः
चतुर्दिशासु सन्मठान् चकार लोकविश्रुतान् ।
विभाण्डकात्मजाश्रमादिसुस्थलेषु पावनान्
तमेव लोकशङ्करं नमामि शङ्करं गुरुम् ॥ ७
यदीयहस्तवारिजातसुप्रतिष्ठिता सती
प्रसिद्धशृङ्गभूधरे सदा प्रशान्तिभासुरे ।
स्वभक्तपालनव्रता विराजते हि शारदा
स शङ्करः कृपानिधिः करोतु मामनेनसम् ॥ ८
इमं स्तवं जगद्गुरोर्गुणानुवर्णनात्मकं
समादरेण यः पठेदनन्यभक्तिसम्युतः ।
समाप्नुयात्समीहितं मनोरथं नरोऽचिरा-
-द्दयानिधेस्स शङ्करस्य सद्गुरोः प्रसादतः ॥ ९