Nataraja Kunchitapaada Sahasranama Stotram (श्री नटराज कुंचितपाद सहस्रनाम स्तोत्रम्): पाठ कैसे करें? जानें साधना विधि, नियम, लाभ, महत्व और सावधानियांIt takes 27 minutes... to read this article !

सनातन धर्म, शैव परंपरा और वैदिक वांग्मय के अनंत आध्यात्मिक आकाश में, जब संपूर्ण ब्रह्मांड की उत्पत्ति, संचालन, संहार और परम मोक्ष की बात आती है, तो भगवान शिव के ‘नटराज’ (Lord Nataraja – नृत्यों के राजा) स्वरूप का स्मरण सर्वोपरि है। भगवान शिव का आनंद तांडव (Cosmic Dance) केवल एक कला का प्रदर्शन नहीं है; यह संपूर्ण ब्रह्मांड की गति, समय के चक्र और परमाणु (Atom) से लेकर आकाशगंगाओं (Galaxies) तक के कंपन का साक्षात स्वरूप है।

दक्षिण भारत के परम पवित्र ‘चिदंबरम’ (Chidambaram) मंदिर में भगवान नटराज आकाश तत्व (Akasha Lingam) के रूप में विराजमान हैं। नटराज की मूर्ति में आप देखेंगे कि उनका दाहिना पैर ‘अपस्मार पुरुष’ (अज्ञान और अहंकार के प्रतीक असुर) को कुचल रहा है, और उनका बायां पैर ऊपर की ओर उठा हुआ है (नृत्य की मुद्रा में मुड़ा हुआ)। इसी ऊपर उठे हुए, मुड़े हुए वाम चरण को शास्त्रों में ‘कुंचितपाद’ (Kunchitapaada) कहा जाता है।

‘कुंचितपाद’ का दार्शनिक अर्थ है— अनुग्रह (Grace) और मोक्ष (Salvation)। जो भी जीवात्मा इस उठे हुए चरण की शरण में जाती है, वह जन्म-मरण के चक्र से मुक्त हो जाती है। भगवान नटराज के इसी परम पावन, मोक्षदायी और करूणामयी ‘कुंचितपाद’ की महिमा का गान करने, उसकी ब्रह्मांडीय ऊर्जा को समझने और शिव की अहैतुकी कृपा प्राप्त करने के लिए चिदंबरम के दीक्षितों (पुजारियों) और सिद्ध ऋषियों (जैसे पतंजलि और व्याघ्रपाद) की परंपरा में एक हज़ार (1000) परम पवित्र नामों का संकलन किया गया है, जिसे शास्त्रों में ‘श्री नटराज कुंचितपाद सहस्रनाम स्तोत्रम्’ (Nataraja Kunchitapaada Sahasranama Stotram) के नाम से जाना जाता है।

‘सहस्रनाम’ का अर्थ है— एक हज़ार नाम। यह कोई साधारण स्तुति नहीं है; यह एक ऐसा जाग्रत महामंत्र, एक ऐसा नाद-ब्रह्म है, जो जीवन के भयंकर से भयंकर अज्ञान, भटकाव, दरिद्रता, और कला/शिक्षा के क्षेत्र में आ रही बाधाओं को पल भर में भस्म कर देता है। जब व्यक्ति को समाज में सर्वोच्च सृजनात्मकता (Creativity), शांति और जीवन के परम सत्य (आत्म-साक्षात्कार) की आवश्यकता होती है, तब यह स्तोत्र साक्षात कल्पवृक्ष सिद्ध होता है।

नटराजा कुचितापादा सहस्रनाम स्तोत्रं हिंदी  |  Nataraja Kunchitapaada Sahasranama Stotram

॥ श्रीनटराजकुञ्चितपादसहस्रनामस्तोत्रम् ॥

॥ श्रीगुरुभ्यो नमः ॥

॥ श्रीशिवकामसुन्दरीसमेत श्रीनटराजः शरणम् ॥

 यस्मात्सर्वं समुत्पन्नं चराचरमिदं जगत् ।
इदं नमोनटेशाय तस्मै कारुपयर्द्ध्वये ॥ १ ॥

कैलासशिखरे रम्ये रत्नसिंहासने स्थितम् ।
शङ्करं करुणामूर्तिं प्रणम्य परया मुदा ॥ २ ॥

विनयावनता भूत्वा पप्रच्छ परमेश्वरी ।
भगवन्! भव! सर्वज्ञ! भवतापहराव्यय ॥ ३ ॥

नटराजा कुचितापादा सहस्रनाम स्तोत्रं

त्वत्तः श्रुतं मया देव! सर्वं नामसहस्रकम् ।
नटेशस्यापि नामानि सुश्रुतानि मया प्रभो! ॥ ४ ॥

त्वत्तः श्रेष्ठतमः पादः कुञ्चितः पद्मसन्निभः ।
तस्मात्तन्नाम साहस्रं श्रोतुमिच्छामि शङ्कर! ॥ ५ ॥

असकृत्प्रार्थितोऽपि त्वं न तत्कथितवानसि ।
इदानीं कृपया शम्भो! वद वाञ्छाभिपूर्तये ॥ ६ ॥

॥ श्री शिव उवाच ॥

साधु साधु महादेवि! पृष्टं सर्वजगद्धितम् ।
पुरा नारायणः श्रीमान् लोकरक्षापरायणः ॥ ७ ॥ नटराजा कुचितापादा सहस्रनाम स्तोत्रं

क्षीराब्धौ सुचिरं कालं साम्बमूर्तिधरं शिवम् ।
मामेकाग्रेण चित्तेन ध्यायन् न्यवसदच्युतः ॥ ८ ॥

तपसा तस्य सन्तुष्टः प्रसन्नोऽहं कृपावशात् ।
ध्यानात्समुत्थितो विष्णुर्लक्ष्म्या मां पर्यपूजयत् ॥ ९ ॥

तुष्टाव विविधैस्त्वतोत्रैर्वेदवेदान्तसम्मितैः ।
वरं वरय हे वत्स! यदिष्टं मनसि स्थितम् ॥ १० ॥

तत्ते दास्यामि न चिरादित्युक्तः कमलेक्षणः ।
प्राह मां परया भक्त्या वरं दास्यसि चेत्प्रभो ॥ ११ ॥

रक्षार्थं सर्वजगतामसुराणा क्षयाय च ।
सार्वात्म्ययोगसिद्ध्यर्थं मन्त्रमेकं ममादिश ॥ १२ ॥

नटराजा कुचितापादा सहस्रनाम स्तोत्रं

इति सम्प्रार्थितस्तेन माधवेनाहमम्बिके ।
सञ्चिन्त्यानुत्तम स्तोत्रं सर्वेषां सर्वसिद्धिदम् ॥ १३ ॥

नटेशकुञ्चिताङ्घ्रेस्तु नामसाहस्रमुत्तमम् ।
लक्षमीकान्ताय भक्ताय उक्तवानस्मि शङ्करि! ॥ १४ ॥

तेन जित्वाऽसुरान् सर्वान् ररक्ष सकलं जगत् ।
सार्वात्म्ययोगसिद्धिं च प्राप्तवानम्बुजेक्षणः ॥ १५ ॥

तदेव प्रार्थयस्यद्य नामसाहस्रमम्बिके ।
पठनान्मननाद्यस्य नृत्तं दर्शयति प्रभुः ॥ १६ ॥

सर्वपापहरं पुण्यं सर्वरक्षाकरं नृणाम् ।
सर्वैश्वर्यप्रदं सर्वसिद्धिदं मुक्तिदं परम् ॥ १७ ॥

वक्ष्यामि श‍ृणु हे देवि! नामसाहस्रमुत्तमम् ।

अस्य श्री शिवकामसुन्दरीसमेत श्री नटराजराजकुञ्चितपादसहस्रनामस्तोत्र
महामन्त्रस्य सदाशिव ऋषिः, महाविराट् छन्दः,
श्रीशिवकामसुन्दरीसमेतश्रीनटराजराजो देवता । बीजं, शक्तिः,कलिकं,
अङ्गन्यासकरन्यासौ च चिन्तामणि मन्त्रवत् ॥ नटराजा कुचितापादा सहस्रनाम स्तोत्रं

ॐ श्रीशिवाय नमः इति बीजम् । ॐ अनन्तशक्तये नमः इति शक्तिः ।
महेश्वराय नमः इति कीलकम् । श्रीनटेश्वरप्रसादसिद्ध्यर्थे नामपरायणे

अर्चने विनियोगः ।

ॐ नम्याय नमः अङ्गुष्ठाभ्यां नमः । स्वाहा नमः -तर्जनीभ्यां स्वाहा
(नमः) ॐ वषट्काराय नमः -मध्यमाभ्यां वषट् (नमः) । ॐ हुङ्काराय
नमः -अनामिकाभ्यां हुं (नमः) ॐ वौषट्काराय नमः । कनिष्ठिकष्ठया
वौषट् (नमः) ॐ फट्काराय नमः – करतलकरपृष्ठाभ्यां फट् (नमः)
। ॐ नम्याय नमः – हृदयाय नमः । ॐ स्वाहा नमः शिरसे स्वाहा ।
ॐ वषट्काराय नमः – शिखायै वषट् । ॐ हुङ्काराय नमः – कवचाय
हुम् । ॐ वौषट्काराय नमः – नेत्रत्रयाय वौषट् । ॐ फट्कराय नमः –
अस्त्राय फट् । ॐ भृर्भुवस्सुवरों इति दिग्बन्धः ।

नटराजा कुचितापादा सहस्रनाम स्तोत्रं

॥ ध्यानम् ॥

ध्यायेत्कोटिरविप्रभं त्रिनयनं शीतांशुगङ्गाधरं
दक्षाङ्घ्रिस्थितवामकुञ्चितपदं शार्दूलचर्माम्बरम् ।
वह्निं डोलकराभयं डमरुकं वामे शिवां श्यामलां
कल्हारां जपस्रक्षुकां कटिकरां देवीं सभेशं भणे ॥ १ ॥

फाले रत्नत्रिपुण्ड्रं फणिनमपि गले पादपीठे च भूतं
बाह्वोर्वह्निं च ढक्कं वदनसरसिजे सूर्यचन्द्रौ शिखीन्द्रम् ।
ओङ्काराख्यप्रभायां सुरभुवनगणं पार्श्वयोर्वाद्यकारौ यः
कृत्वाऽऽनन्दनृत्तं स्वसदसि कुरुते कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २ ॥

ऊरुन्याससुडोल – वह्रि – शुकभृद्वामं कराम्भोरुहं
ढक्काच्छाक्षस्रगुत्पलाभयकरं वामं पदं कुञ्चितम् ।
उद्धृत्याधरभूत पृष्ठविलसद्दक्षाङ्घ्रिमर्धाम्बिकं
सामीवस्त्रसुवेणिदृक्कुचभरं ध्यायेन्नटं मेलनम् ॥ ३ ॥

नटराजा कुचितापादा सहस्रनाम स्तोत्रं

ध्यायेदात्मविमोहसंस्थितपदं रक्तांशुकं शङ्करं
किञ्चित्कुञ्चितवामपादमतुलं व्यालम्बबाहुं त्रिभिः ।
वामे पौण्ड्र धनुश्च पाशदहनौ दक्षे करे चाभयं
पौष्पं मार्गणमङ्कुशं डमरुकं बिभ्राणमच्छच्छविम् ॥ ४ ॥

॥ अथ सहस्रनामस्तोत्रम् ॥

अखण्डबोधोऽखण्डात्मा घण्टामण्डलमण्डितः ।
अखण्डानन्दचिद्रूपः परमानन्दताण्डवः ॥ १ ॥

अगम्यमहिमाम्भोधिः अनौपम्ययशोनिधिः ।
अग्रेवधोऽग्रेसम्पूज्यो हन्ता तारो मयोभवः ॥ २ ॥

अघोरोऽद्बुतचारित्र आनन्दवपुरग्रणीः ।
अजीर्णस्सुकुमारोऽन्यः पारदर्शी पुरन्दरः ॥ ३ ॥

अतर्क्यस्सुकरस्सारः सत्तामात्रस्सदाशिवः ।
अनन्तरूप एकात्मा स्वस्तरुर्व्याहृतिः स्वधा ॥

अनन्तशक्तिराचार्यः पुष्कलस्सर्वपूरणः ।
अनर्घरत्नखचितकिरीटो निकटेस्थितः ॥ ५ ॥

अनहङ्कृतिरच्छेद्यस्स्वानन्दैकघनाकृतिः ।
अनावरणविज्ञानो निर्विभागो विभावसुः ॥ ६ ॥

अनिर्देश्योऽनिलोऽगम्योऽविक्रियोऽमोघवैभवः ।
अनुत्तमः परोदासो मुक्तिदो मुदिताननः ॥ ७ ॥

नटराजा कुचितापादा सहस्रनाम स्तोत्रं

अन्नानां पतिरत्युग्रो हरिध्येयोऽद्वयाकृतिः ।
अपरोक्षोऽव्रणोऽलिङ्गोऽप्यद्वेष्टा प्रेमसागरः ॥ ८ ॥

अपर्यन्तोऽपरिच्छेद्योऽगोचरो रुग्विमोचकः ।
अपस्मृतिन्यस्तपादः कृत्तिवासाः कृपाकरः ॥ ९ ॥

अप्रमेयोऽप्रतिरथः प्रद्युम्नः प्रमथेश्वरः ।
अमानी मदनोऽमन्युरमानो मानदो मनुः ॥ १० ॥

अमूल्यमणिसभास्वत्फणीन्द्रकरकङ्कणः ।
अरुणः शरणः शर्वः शरण्य शर्मदः शिवः ॥ ११ ॥

अवशस्स्ववशस्स्थास्नुरन्तर्यामी शतक्रतुः ।
अशुभक्षयकृज्ज्योतिरनाकाशस्त्वलेपकः ॥ १२ ॥

अस्नेहस्सङ्गनिर्मुक्तोऽह्रस्वोऽदीर्घोऽविशेषकः
अक्षरस्त्र्यक्षरस्त्रयक्षः पक्षपातविवर्जितः ॥ १३ ॥

आततावी महारुद्रः क्षेत्राणामधिपोऽक्षदः ।
आतन्वानश्शतानन्दो गृत्सो गृत्सपतिस्मृरः ॥ १४ ॥

आदित्यवर्णस्सञ्ज्योतिस्सम्यग्दर्शनतत्परः ।
आदिभूतो महाभूतस्स्वेच्छाकलितविग्रहः ॥ १५ ॥

आप्तकामोऽनुमन्ताऽऽत्मकामोऽभिन्नोऽनणुर्हरः ।
आभास्वरः परन्तत्वमादिमः पेशलः पविः ॥ १६ ॥

नटराजा कुचितापादा सहस्रनाम स्तोत्रं

आव्याधिपतिरादित्यः ककुभः कालकोविदः ।
इच्छानिच्छाविरहितो विहारी वीर्यवर्धनः ॥ १७ ॥

उद्दण्डताण्डवश्चण्ड ऊर्ध्वताण्डवपण्डितः ।
उदासीनौपद्रष्टा मौनगम्यो मुनीश्वरः ॥ १८ ॥

ऊर्ध्वपादूर्ध्वरेताश्च प्रौढनर्तनलम्पटः ।
ओषधीशस्सतामीशौच्चैर्घोषो विभीषणः ॥ १९ ॥

कन्दर्प कोटिसदृशः कपर्दी कमलाननः ।
कपालमालाभरणाः कङ्कालः कलिनाशनः ॥ २० ॥

कपालमालालङ्कारः कालान्तकवपुर्धरः ।
कमनीयः कलानाथशेखरः कम्बुकन्धरः ॥ २१ ॥

कमनीयनिजानन्दमुद्राञ्चितकराम्बुजः ।
कराब्जधृतकालाग्निः कदम्बकुसुमारुणः ॥ २२ ॥

नटराजा कुचितापादा सहस्रनाम स्तोत्रं

करिचर्माम्बरधरः कपाली कलुषापहः ।
कल्याणमूर्तिः कल्याणीरमणः कमलेक्षणः ॥ २३ ॥

कक्षपश्च भुवन्तिश्च भवाख्यो वारिवस्कृतः ।
कालकण्ठः कालकालः कालकूटविषाशनः ॥ २४ ॥

कालनेता कालहन्ता कालचक्रप्रवर्तकः ।
कालज्ञः कामदः कान्तः कामारिः कामपालकः ॥ २५ ॥

कालात्मा कालिकानाथः कार्कोटकविभूषणः ।
कालिकानाट्यरसिको निशानटननिश्चलः ॥ २६ ॥

कालीवादप्रियः कालः कालातीतः कलाधरः ।
कुठारभृत्कुलाद्रीशः कुञ्चितैकपदाम्बुजः ॥ २७ ॥

नटराजा कुचितापादा सहस्रनाम स्तोत्रं

कुलुञ्चानां पतिः कूप्यो धन्वावी धनदाधिपः ।
कूटस्थः कूर्मपीठस्थः कूश्माण्डग्रहमोचकः ॥ २८ ॥

कूलङ्कषकृपासिन्धुः कुशली कुङ्कुमेश्वरः ।
कृतज्ञः कृतिसारज्ञः कृशानुः कृष्णपिङ्गलः ॥ २९ ॥

कृताकृतः कृशः कृष्णाः शान्तिदः शरभाकृतिः ।
कृतान्तकृत्क्रियाधारः कृती कृपणरक्षकः ॥ ३० ॥

केवलः केशवः केलीकरः केवलनायकः ।
कैलासवासी कामेशः कविः कपटवर्जितः ॥ ३१ ॥

कोटिकन्दर्पसौभाग्यसुन्दरो मधुरस्मितः ।
गदाधरो गणस्वामी गरिष्ठस्तोमरायुधः ॥ ३२ ॥

नटराजा कुचितापादा सहस्रनाम स्तोत्रं

गर्वितो गगनावासो ग्रन्थित्रय विभेदनः ।
गह्वरेष्ठो गणाधीशो गणेशो गतिवर्जितः ॥ ३३ ॥

गायको गरुडारूढो गजासुरविमर्दनः ।
गायत्रीवल्लभो गार्ग्यो गायकानुग्रहोन्मुखः ॥ ३४ ॥

गुहाशयो गुणातीतो गुरुमूर्तिर्गुहप्रियः ।
गूढो गुह्यतरो गोप्यो गोरक्षी गणसेवितः ॥ ३५ ॥

ये भी पढ़ें:  Sri Batuk Bhairav Sahasranama (श्री बटुक भैरव सहस्त्रनाम): पाठ कैसे करें? जानें साधना विधि, नियम, लाभ, महत्व और सावधानियां

चतुर्भुजश्शततनुः शमिताखिल कौतुकः ।
चतुर्वक्त्रश्चक्रधरः पञ्चवक्त्रः परन्तप ॥ ३६ ॥

चिच्छक्तिलोचनानन्दकन्दलः कुन्दपाण्डरः ।
चिदानन्दनटाधीशः चित्केवलवपुर्धरः ॥ ३७ ॥

चिदेकरससम्पूर्णः ह्रीं शिवश्श्रीमहेश्वरः ।
चैतन्यं चिच्छिद्वैतश्चिन्मात्रश्चित्सभाधिपः ॥ ३८ ॥

जटाधरोऽमृताधारोऽमृतांशुरमृतोद्भवः ।
जटिलश्चटुलापाङ्गो महानटनलम्पटः ॥ ३९ ॥

जनार्दनो जगत्स्वामी जन्मकर्मनिवारकः ।
जवनो जगदाधारो जमदग्निर्जराहरः ॥ ४० ॥

जह्नुकन्याधरो जन्मजरामृत्युनिवारकः ।
णान्तनादिनामयुक्तविष्णुनम्यपदाम्बुजः ॥ ४१ ॥

तत्वावबोधस्तत्वेशस्तत्वभावस्तपोनिधिः ॥

तरुणस्तारकस्ताम्रस्तरिष्णुस्तत्वबोधकः ।
त्रिधामा त्रिज्जगद्धेतुः त्रिमूर्तिस्तिर्यगूर्ध्वगः ॥ ४२ ॥

त्रिमातृकस्त्रिवृद्रूपः तृतीयस्त्रिगुणाधिकः ।
दक्षाध्वरहरो दक्षो दहरस्थो दयानिधिः ॥ ४३ ॥

दक्षिणाग्निर्गार्हपत्यो दमनो दानवान्तकः ।
दीर्घपिङ्गजटाजूटो दीर्घबाहुर्दिगम्बरः ॥ ४४ ॥

नटराजा कुचितापादा सहस्रनाम स्तोत्रं

दुराराध्यो दुराधर्षो दुष्टदूरो दुरासदः ।
दुर्विज्ञेयो दुराचारनाशनो दुर्मदान्तकः ॥ ४५ ॥

दैव्यो भिषक् प्रमाणज्ञो ब्रह्मण्यो ब्राह्मणात्मकः ।
द्रष्टा दर्शयिता दान्तो दक्षिणामूर्तिरूपभृत् ॥ ४६ ॥

धन्वी धनाधिपो धन्यो धर्मगोप्ता धराधिपः ।
धूष्णुर्दूतस्तीक्ष्णदम्ष्ट्रस्सुधन्वा सुतदः सुखी ॥ ४७ ॥

ध्यानगम्यो ध्यातृरूपो ध्येयो धर्मविदां वरः ।
नक्तञ्चरः प्रकृन्तानां पतिर्गिरिचरो गुरुः ॥ ४८ ॥

नन्दिनाट्यप्रियो नन्दी नटेशो नटवेषभृत् ।
नमदानन्ददो नम्यो नगराजनिकेतनः ॥ ४९ ॥

नारसिंहो नगाध्यक्षो नादान्तो नादवर्जितः ।
निचेरुकः परिचरोऽरण्यानां पतिरद्भुतः ॥ ५० ॥

निरङ्कुशो निराधारो निरपायो निरत्ययः ।
निरञ्जनो नित्यशुद्धो नित्यबुद्धो निराश्रयः ॥ ५१ ॥

निरंशो निगमानन्दो निरानन्दो निदानभूः ।
निर्वाणदो निर्वृतिस्थो निर्वैरो निरुपाधिकः ॥ ५२ ॥

निर्विकल्पो निरालम्बो निर्विकारो निरामयः ।
निषङ्गीषुधिमानिन्द्रस्तस्कराणामधीश्वरः ॥ ५३ ॥

नटराजा कुचितापादा सहस्रनाम स्तोत्रं

निस्पन्दः प्रत्ययानन्दो निर्निमेषो निरन्तरः ।
नैष्कर्म्यदो नवरसः त्रिस्थस्त्रिपुरभैरवः ॥ ५४ ॥

पञ्चभूतप्रभुः पञ्चपूजासन्तुष्टमानसः ।
पञ्चयज्ञप्रियः पञ्चप्राणाधिपतिरव्ययः ॥ ५५ ॥

पतञ्जलिप्राणनाश्च परापरविवर्जितः ।
पतिः पञ्चत्वनिर्मुक्तः पञ्चकृत्यपरायणः ॥ ५६ ॥

पत्तीनामधिपः कृत्स्नवीतो धावंश्च सत्त्वपः ।
परमात्मा परं ज्योतिः परमेष्ठी परात्परः ॥ ५७ ॥

पर्णशद्यः प्रत्यगात्मा प्रसन्नः परमोन्नतः ।
पवित्रः पार्वतीदारः परमापन्निवारकः ॥ ५८ ॥

नटराजा कुचितापादा सहस्रनाम स्तोत्रं

पाटलाम्शुः पटुतरः पारिजातद्रुमूलगः ।
पापाटवीबृहद्भानुः भानुमत्कोटिकोटिभः ॥ ५९ ॥

पाशी पातकसंहर्ता तीक्ष्णेषुस्तिमिरापहः ।
पुण्यः पुमान्पुरिशयः पूषा पूर्णः पुरातनः ॥ ६० ॥

पुरजित्पूर्वजः पुष्पहासः पुण्यफलप्रदः ।
पुरुहूतः पुरद्वेषी पुरत्रयविहारवान् ॥ ६१ ॥

पुलस्त्यः क्षयणो गृह्यो गोष्ठ्यो गोपरिपालकः ।
पुष्टानां पतिरव्यग्रो भवहेतिर्जगत्पतिः ॥ ६२ ॥

प्रकृतीशः प्रतिष्ठाता प्रभवः प्रमथः प्रथी ।
प्रपञ्चोपशमो नामरूपद्वयविवर्जितः ॥ ६३ ॥

प्रपञ्चोल्लासनिर्मुक्तः प्रत्यक्षः प्रतिभात्मकः
प्रबुद्धः परमोदारः परमानन्दसागरः ॥ ६४ ॥

प्रमाणः प्रणवः प्राज्ञः प्राणदः प्राणनायकः ।
प्रवेगः प्रमदार्धाङ्गः प्रनर्तनपरायणः ॥ ६५ ॥

बभ्रुर्बहुविधाकारो बलप्रमथनो बली ।
बभ्रुशो भगवान्भाव्यो विव्याधी विगतज्वरः ॥ ६६ ॥

बिल्मी वरूथी दुन्दुभ्याहनन्यौ प्रमृशाभिधः ।
ब्रह्मविद्यागुरुर्गुह्यो गुह्यकैस्समभिष्टुतः ॥ ६७ ॥

ब्रह्मविद्याप्रदो ब्रह्म बृहद्गर्भो बृहस्पतिः ।
ब्रह्माण्डकाण्डविस्फोटमहाप्रलयताण्डवः ॥ ६८ ॥

ब्रह्मिष्ठो ब्रह्मसूत्रार्थो ब्रह्मण्यो ब्रह्मचेतनः ।
भगनेत्रहरो भर्गो भवघ्नो भक्तिमन्निधिः ॥ ६९ ॥

भद्रो भद्रप्रदो भद्रवाहनो भक्तवत्सलः ।
भावज्ञो बन्धविच्छेत्ता भावातीतोऽभयङ्करः ॥ ७० ॥

भावाभावविनिर्मुक्तो भारूपो भावितो भरः ।
भूतमुक्तावलीतन्तुः भूतपूर्वो भुजङ्गभृत् ॥ ७१ ॥

भूमा भूतपतिर्भव्यो भूर्भुवोव्याहृतिप्रियः ।
भृङ्गिनाट्यप्रमाणज्ञो भ्रमरायितनाट्यकृत् ॥ ७२ ॥

नटराजा कुचितापादा सहस्रनाम स्तोत्रं

भ्राजिष्णुर्भावनागम्यो भ्रान्तिज्ञानविनाशनः ।
मनीषी मनुजाधीशो मिथ्याप्रत्ययनाशनः ॥ ७३ ॥

मनोभर्ता मनोगम्यो मननैकपरायणः ।
मनोवचोभिरग्राह्यो महाबिलकृतालयः ॥ ७४ ॥

मयस्करो महातिर्थ्यः कूल्यः पार्यः पदात्मकः ।
महर्द्धिर्महिमाधारो महासेनगुरुर्महः ॥ ७५ ॥

महाकर्ता महाभोक्ता महासंविन्मयो मधुः ।
महातात्पर्यनिलयः प्रत्यग्ब्रह्मैक्यनिश्चयः ॥ ७६ ॥

महानन्दो महास्कन्दो महेन्द्रो महसान्निधिः ।
महामायो महाग्रासो महावीर्यो महाभुजः ॥ ७७ ॥

नटराजा कुचितापादा सहस्रनाम स्तोत्रं

महोग्रताण्डवाभिज्ञः परिभ्रमणताण्डवः ।
माणिभद्रार्चितो मान्यो मायावी मान्त्रिको महान् ॥ ७८ ॥

मायानाटककृन्मायी मायायन्त्रविमोचकः ।
मायानाट्यविनोदज्ञो मायानटनशिक्षकः ॥ ७९ ॥

मीढुष्टमो मृगधरो मृकण्डुतनयप्रियः ।
मुनिरातार्य आलाद्यः सिकत्यश्च किँशिलः ॥ ८० ॥

मोचको मोहविच्छेत्ता मोदनीयो महाप्रभुः ।
यशस्वी यजमानात्मा यज्ञभुग्यजनप्रियः ॥ ८१ ॥

यक्षराड्यज्ञफलदो यज्ञमूर्तिर्यशस्करः ।
योगगम्यो योगनिष्ठो योगानन्दो युधिष्ठिरः ॥ ८२ ॥

योगयोनिर्यथाभूतो यक्षगन्धर्ववन्दितः ।
रविमण्डलमध्यस्थो रजोगुणविवर्जितः ॥ ८३ ॥

राजराजेश्वरो रम्यो रात्रिञ्चर विनाशनः ।
रातिर्दातिश्चतुष्पादः स्वात्मबन्धहरः स्वभूः ॥ ८४ ॥

रुद्राक्षस्रङ्मयाकल्पः कह्लारकिरणद्युतिः ।
रोहितस्स्थपतिर्वृक्षपतिर्मन्त्री च वाणिजः ॥ ८५ ॥

लास्यामृताब्धिलहरीपूर्णेन्दुः पुण्यगोचरः ।
वरदो वामनो वन्द्यो वरिष्ठो वज्रवर्मभृत् ॥ ८६ ॥

वराभयप्रदो ब्रह्मपुच्छो ब्रह्मविदां वरः ।
वशी वरेण्यो विततो वज्रभृद्वरुणात्मकः ॥ ८७ ॥

वह्निमण्डलमध्यस्थो वर्षीयान् वरुणेश्वरः ।
वाच्यवाचकनिर्मुक्तो वागीशो वागगोचरः ॥ ८८ ॥

विकाररहितो विष्णुर्विराडीशो विराण्मयः ।
विघ्नेश्वरो विघ्ननेता शक्तिपाणिः शरोद्भवः ॥ ८९ ॥

विजिघत्सो विगतभीर्विपिपासो विभावना ।
विदग्धमुग्धवेषाड्यो विश्वातीतो विशोकदः ॥ ९० ॥

विद्यानिधिर्विरूपाक्षो विश्वयोनिर्वृषध्वजः ।
विद्युत्यो विवहो मेध्यो रेष्मियो वास्तुपो वासः ॥ ९१ ॥

विद्वत्तमो विदूरस्थो विश्रमो वेदनामयः ।
वियदादिजगत्स्रष्टा विविधानन्ददायकः ॥ ९२ ॥

विराठृदयपद्मस्थो विधिर्विश्वाधिको विभुः ।
विरूपो विश्वदिग्व्यापी वीतशोको विरोचनः ॥ ९३ ॥

विश्रान्तिभूर्विवसनो विघ्नहन्ता विनोदकः ।
विश‍ृङ्खलो वियद्धेतुर्विषमो विद्रुमप्रभः ॥ ९४ ॥

विश्वस्यायतनो वर्यो वन्दारुजनवत्सल ।
विज्ञानमात्रो विरजा विरामो विबुधाश्रय ॥ ९५ ॥

वीरप्रियो वीतभयो विन्ध्यदर्पविनाशन ।
वीरभद्रो विशालाक्षो विष्णुबाणो विशां पतिः ॥ ९६ ॥

वृद्धिक्षयविनिर्मुक्तो विद्योतो विश्ववञ्चकः ।
वेतालनटनप्रीतो वेतण्डत्वक्कृताम्बरः ॥ ९७ ॥

वेदवेद्यो वेदरूपो वेदवेदान्तवित्तमः ।
वेदान्तकृत्तुर्यपादो वैद्युतः सुकृतोद् भवः ॥ ९८ ॥

वेदार्थविद्वेदयोनिः वेदाङ्गो वेदसंस्तुतः ।
वेलातिलङ्घिकरुणो विलासी विक्रमोन्नतः ॥ ९९ ॥

वैकुण्ठवल्लभोऽवर्ष्यो वैश्वानरविलोचनः ।
वैराग्यशेवधिर्विश्वभोक्ता सर्वोर्ध्वसंस्थितः ॥ १०० ॥

वौषट्कारो वषट्कारो हुङ्कारः फट्करः पटुः ।
व्याकृतो व्यापृतो व्यापी व्याप्यसाक्षी विशारदः ॥ १०१ ॥

व्याघ्रपादप्रियो व्याघ्रचर्मधृद्वयाधिनाशनः ।
व्यामोहनाशनो व्यासो व्याख्यामुद्रालसत्करः ॥ १०२ ॥

व्युप्तकेशोऽथ विशदो विष्वक्सेनो विशोधकः ।
व्योमकेशो व्योममूर्तिर्व्योमाकारोऽव्ययाकृतिः ॥ १०३ ॥

व्रातो व्रातपतिर्विप्रो वरीयान् क्षुल्लकः क्षमी ।
शक्तिपातकरः शक्तः शाश्वतः श्रेयसां निधिः ॥ १०४ ॥

शयानः शन्तमः शान्तः शासकः श्यामलाप्रियः ।
शिवङ्करः शिवतरः शिष्टहृष्टः शिवागमः ॥ १०५ ॥

शीघ्रियश्शीभ्य आनन्दः क्षयद्वीरश्शरोऽक्षरः ।
शुद्धस्फटिकसङ्काशः श्रुतिप्रस्तुतवैभवः ॥ १०६ ॥

शुष्क्यो हरित्यो लोप्यश्च सूर्म्यः पर्ण्योऽणिमादिभूः ।
शूरसेनः शुभाकारः शुभ्रमूर्तिः शुचिस्मितः ॥ १०७ ॥

शङ्गः प्रतरणोऽवार्यः फेन्यः शष्प्यः प्रवाहजः ।
श्राव्यः शत्रुहरः शूली श्रुतिस्मृतिविधायकः ॥ १०८ ॥

श्रीशिवः श्रीशिवानाथः श्रीमान् श्रीपतिपूजितः ।
श्रुत्यः पथ्यस्स्वतन्त्रस्थः काट्यो नीप्यः करोटिभृत् ॥ १०९ ॥

षडाधारगतः साङ्ख्यः षडक्षरसमाश्रयः ।
षडूर्मिरहितः स्तव्यः षड्गुणैश्वर्यदायकः ॥ ११० ॥

सकृद्विभातः संवेत्ता सदसत्कोटिवर्जितः ।
सत्त्वसंस्थः सुषुप्तिस्थः सुतल्पः सत्स्वरूपगः ॥ १११ ॥

सद्योजातः सदाराध्यः सामगः सामसंस्तुतः ।
सनातनः समः सत्यः सत्यवादी समृद्धिदः ॥ ११२ ॥

समदृष्टिः सत्यकामः सनकादिमुनिस्तुतः ।
समस्तभुवनव्यापी समृद्धः सततोदितः ॥ ११३ ॥

सर्वकृत्सर्वजित्सर्वमयः सत्वावलम्बकः ।
सर्वद्वन्द्वक्षयकरः सर्वापद्विनिवारकः ॥ ११४ ॥

सर्वदृक् सर्वभृत्सर्गः सर्वहृत्कोशसंस्थितः ।
सर्वप्रियतमः सर्वदारिद्र्यक्लेशनाशनः ॥ ११५ ॥

सर्वविद्यानामीशान ईश्वराणामधीश्वरः ।
सर्वज्ञः सर्वदः स्थाणुः सर्वेशः समरप्रियः ॥ ११६ ॥

सर्वातीतः सारतरः साम्बः सारस्वतप्रदः ।
सर्वार्थः सर्वदा तुष्टः सर्वशास्त्रार्थसम्मतः ॥ ११७ ॥

सर्वेश्वरः सर्वसाक्षी सर्वात्मा साक्षिवर्जितः ।
सव्यताण्डवसम्पन्नो महाताण्डववैभवः ॥ ११८ ॥

सस्पिञ्जरः पशुपतिस्त्विषीमानध्वनां पतिः ।
सहमानस्सत्यधर्मा निव्याधी नियमो यमः ॥ ११९ ॥

सहस्राक्षः सहस्राङ्घ्रिः सहस्रवदनाम्बुजः ।
सहस्राक्षार्चितः सम्राट् सन्धाता सम्पदालयः ॥ १२० ॥

सिद्धेशः सिद्धिजनकः सिद्धान्तः सिद्धवैभवः ।
सुधारूपः सुराध्यक्षः सुभ्रूः सुखघनः सुधीः ॥ १२१ ॥

सुनिश्चितार्थो राद्धान्तः तत्वमर्थस्तपोमयः ।
सुव्रतः सत्यसङ्कल्पः स्वसंवेद्यः सुखावहः ॥ १२२ ॥

सूतः सदस्पतिः सूरिरहन्त्यो वनपो वरः ।
सूत्रभूतः स्वप्रकाशः समशीलः सदादयः ॥ १२३ ॥

सूत्रात्मा सुलभः स्वच्छः सूदरः सुन्दराननः ।
सूद्यस्सरस्यो वैशन्तो नाद्योऽवट्योटचोऽथ वर्षकः ॥ १२४ ॥

सूक्ष्मात्सूक्ष्मतरः सूर्यः सूक्ष्मस्थूलत्ववर्जितः ।
सृकावी मुष्णतां नाथः पञ्चाशद्वर्णरूपभृत् ॥ १२५ ॥

सोममण्डलमध्यस्थः सोमः सौम्यः सुहृद्वरः ।
सङ्कल्पोल्लासनिर्मुक्तः समनीरागचेतनः ॥ १२६ ॥

सम्पन्नः सङ्क्रमः सत्री सन्दाता सकलोर्जितः ।
सम्प्रवृद्धः सन्निकृष्टः संविमृष्टः समग्रदृक् ॥ १२७ ॥

सम्प्रहृष्टः सन्निविष्टः संस्पष्टः सम्प्रमर्दनः ।
संयद्वामः संयमीन्द्रः संशयच्छित् सहस्रदृक् ॥ १२८ ॥

संयमस्थः संहृदिस्थः सम्प्रविष्टः समुत्सुकः ।
संवत्सरः कलापूर्णस्सुरासुरनमस्कृतः ॥ १२९ ॥

संवर्ताग्न्युदरः सर्वान्तरस्थस्सर्वदुर्ग्रहः ।
संशान्तसर्वसङ्कल्पः संसदीशः सदोदितः ॥ १३० ॥

स्फुरङ्डमरुनिध्वाननिर्जिताम्भोधिनिस्वनः ।
स्वच्छन्दः स्वच्छसंवित्तिरन्वेष्टव्योऽश्रुतोऽमतः ॥ १३१ ॥

स्वात्मस्थः स्वायुधः स्वामी स्वानन्यः स्वांशिताखिलः ।
स्वाहारूपो वसुमनाः वटुकः क्षेत्रपालकः ॥ १३२ ॥

हितः प्रमाता प्राग्वर्ती सर्वोपनिषदाशयः ।
हिरण्यबाहुस्सेनानीर्हरिकेशो दिशाम्पतिः ॥ १३३ ॥

हेतुदृष्टान्तनिर्मुक्तो हेतुर्हेरम्बजन्मभूः ।
हेयादेयविनिर्मुक्तो हेलाकलितताण्डवः ॥ १३४ ॥

हेलाविनिर्मितजगद्धेमश्वश्रुर्हिरण्मयः ।
ज्ञानलिङ्गो गतिर्ज्ञानी ज्ञानगम्योऽभासकः ॥ १३५ ॥

॥ उत्तर पीठिका ॥

इति कुञ्चितपादस्य नटराजस्य सुन्दरम् ।
नाम्नां सहस्रं सम्प्रोक्तं मया देवि त्वदादरात् ॥ १ ॥

सर्वमन्त्रमयं ह्येतत् न प्रकाश्यं कदाचन ।
सच्छिष्याय विनीताय भक्ताय नटनायके ॥ २ ॥

कराङ्गन्याससंयुक्तं प्रोक्तव्यं ध्यानसंयुतम् ।
कन्यार्थी लभते कन्यां धनार्थी धनमाप्नुयात् ॥ ३ ॥

विद्यार्थी लभते विद्यां पुत्रार्थी पुत्रमाप्नुयात् ।
यद्यत् प्रार्थयते मर्त्यः तत्सर्वं लभते धुवम् ॥ ४ ॥

सर्वसिद्धिकरं पुण्यं सर्वविद्याविवर्द्धनम् ।
सर्वसम्पत्प्रदमिदं सर्वापद्घ्नमघापहम् ॥ ५ ॥

आभिचारप्रयोगादिमहाकृत्यानिवारणम् ।
अपस्मारमहाव्याधिज्वरकुष्ठादिनाशनम् ॥ ६ ॥

अत्युत्पातभयक्षोभक्षुद्रवारणकारणम् ।
कूश्माण्डरुद्रवेतालशाकिन्यादिभयापहम् ॥ ७ ॥

ये भी पढ़ें:  Shri Ram Sahasranamavali (श्री राम सहस्रनामावली): पाठ कैसे करें? जानें साधना विधि, नियम, लाभ, महत्व और सावधानियां

स्मरणादेव जन्तूनां ब्रह्महत्यादिनाशनम् ।
अस्मात्परतरं स्तोत्रं नास्ति लोकत्रयेऽम्बिके ॥ ८ ॥

एतन्नामसहस्रस्य पठनात्सकृदेव हि ।
महापातकयुक्तोऽपि शिवसायुज्यमाप्नुयात् ॥ ९ ॥

प्रयोगलक्षणं वक्ष्ये श‍ृणु शैलसुतेऽधुना ।
पञ्चम्यामथवाष्टम्यां दशम्यां वा विशेषतः ॥ १० ॥

स्नात्वा शुभासने स्थित्वा ध्यायन् श्रीनटनायकम् ।
प्रजपेत्द्वादशावृत्या सर्वान्कामानवाप्नुयात् ॥ ११ ॥

आर्द्रायां प्रातरारभ्य नटनाथस्य सन्निधौ ।
आसायं प्रजपेदेतत् एवं संवत्सरत्रयम् ॥ १२ ॥

तस्य भक्तस्य देवेशः नटनं दर्शयेत्प्रभुः ।
बिल्ववृक्षस्य निकटे प्रदोषे प्रजपेदिदम् ॥ १३ ॥

षड्भिर्मासैमहैश्वर्यं लभते नचिरान्नरः ।
अनेन स्तोत्रराजेन मन्त्रितं भस्म धारयेत् ॥ १४ ॥

भस्मावलोकनान्मृत्युर्वश्यो भवति तत्क्षणात् ।
सलिलं प्राशयेद्धीमान्मन्त्रेणानेन मन्त्रितम् ॥ १५ ॥

सर्वविद्यामयो भूत्वा व्याकरोत्यश्रुतादिकम् ।
नाटकादिमहाग्रन्थं कुरुते नात्र संशयः ॥ १६ ॥

चतुर्थ्यन्तं समुच्चार्य नामैकं तु ततो जपेत् ।
पञ्चाक्षरं तथा नाम्रा सहस्रं प्रजपेत्क्रमात् ॥ १७ ॥

एवं त्रिवारं मासानां अष्टाविंशतिके गते ।
निग्रहानुग्रहौ कर्तुं शक्तिरस्योपजायते ॥ १८ ॥

नाम्नामादौ तथान्ते च पञ्चाक्षरमहामनुम् ।
जप्त्वा मध्यस्थितं नाम निर्नमोन्तं सदाऽसकृत् ॥ १९ ॥

चतुर्थ्यन्तं जपेद्धीमान् त्रिवर्षं च त्रिवारकैः ।
अणिमादिमहासिद्धिमचिरात्प्राप्नुयाद्ध्रुवम् ॥ २० ॥

सर्वेष्वपि च लोकेषु सिद्धस्सन्नाचरेन्नरः ।
लक्ष्मीबीजद्वयक्षिप्तमाद्यन्ते नाम यश्शिवे ॥ २१ ॥

वाञ्छितां श्रियमाप्नोति सत्यमुक्तं वरानने ।
हृल्लेखामन्त्रसंयुक्तं पूर्ववत्संयुतं जपेत् ॥ २२ ॥

योगसिद्धिर्भवेत्तस्य त्रिचतुः पञ्चवत्सरैः ।
किमत्र बहुनोक्तेन या या सिद्धिरभीप्सिता ॥ २३ ॥

सा सा सिद्धिर्भवेदस्य सत्यमेव मयोदितम् ।
कण्ठदघ्नजले स्थित्वा त्रिवारं प्रजपेदिदम् ॥ २४ ॥

रिपूनुच्चाटयेच्छीघ्रमेकेनैव दिनेन सः ।
दक्षिणाभिमुखो भूत्वा धृत्वार्द्रवसनं शुचिः ॥ २५ ॥

शत्रुनाम समुच्चार्य मारयेति पदाङ्कितम् ।
पठेदिमं स्तवं क्रोधात्सप्तकृत्वः त्रिभिर्दिनैः ॥ २६ ॥

स रिपुर्मृत्युगेहस्य धुवमातिथ्यभाग्भवेत् ।
हरिद्रया नटाधीशं कृत्वा प्राणान्प्रतिष्ठिपेत् ॥ २७ ॥

पीतपुष्पैस्समभ्यर्च्य स्तोत्रमेतज्जपेन्नरः ।
स्तम्भयेत्सकलान् लोकान् किमिह क्षुद्रमानुषान् ॥ २८ ॥

आकर्षणाय सर्वेषामुत्तराभिमुखो जपेत् ।
वाञ्छिताः योषितस्सर्वास्तथा लोकान्तरस्थिताः ॥ २९ ॥

यक्षाश्च किन्नराश्चापि राजानो वशमाप्नुयुः ।
कुम्भस्थितं जलं स्पृष्ट्वा त्रिवारं प्रजपेदिदम् ॥ ३० ॥

महाग्रहगणग्रस्तानभिषेकं तु कारयेत् ।
जलदर्शनमात्रेण मुच्यते च ग्रहादिभिः ॥ ३१ ॥

अकारादिज्ञकारान्तनामग्रथितमुत्तमम् ।
स्तोत्रमेतज्जपित्वा च पठित्वा श्रियमाप्नुयात् ॥ ३२ ॥

पूजयित्वा नामभिश्च नटेशप्रीतिभाग्भवेत् ।
किमत्र बहुनोक्तेन सिद्ध्यन्त्यखिलसिद्धयः ॥ ३३ ॥

साक्षान्नटेश्वरो देवो वश्यो भवति शैलजे ।
अस्मात्परतरा सिद्धिः का वास्ति कथय प्रिये ॥ ३४ ॥

निष्कामस्त्वचिरादेव ब्रह्मज्ञानमवाप्नुयात् ।
तस्मात्सर्वप्रयत्नेन यतिभिर्ब्रह्मचारिभिः ॥ ३५ ॥

वनस्थैश्च गृहस्थैश्च सर्वैर्जप्यं प्रयत्नतः ।
नित्यकर्मवदेवेदं स्तोत्रं जप्यं सदादरात् ॥ ३६ ॥

ब्रह्मादयोऽपि यन्नामपाठस्यैव प्रसादतः ।
सृष्टिस्थित्यन्तकर्तारो जगतां चिरजीविनः ॥ ३७ ॥

अन्ये च मुनयस्सर्वे हयग्रीवादयः पुरा ।
पठित्वा परमां सिद्धिं पुनरावृत्तिवर्जिताम् ॥ ३८ ॥

लेभिरे तदिदं स्तोत्रं पठ त्वमपि शैलजे ।
अस्मात्परतरं वेद्यं नास्ति सत्यं मयोदितम् ॥ ३९ ॥

॥ श्रीभृङ्गिरिटि संहितायां श्रीशिवकामसुन्दरीसमेत श्री
नटराजराज कुञ्चितपादसहस्रनामस्तोत्रं सम्पूर्णम् ॥

 ॥ शिवम् ॥

ततः चिन्तामणिमन्त्रेण अङ्गन्यासं, ध्यायेत्कोटि रविप्रभमिति
फालेरत्नत्रिपुण्ड्रं इति ध्यानं लं पृथिव्यात्मन
इति पञ्च पूजां च कुर्यात् ।
भूर्भुवस्सुवरोमिति दिक्विमोकः इति तु विशेषः ।
चिन्तामणि मन्त्रः सनियमं गुरूपदेशात् ज्ञेयः ॥

यः शिवो नामरूपाभ्यां या देवी सर्वमङ्गला ।
तयोः संस्मरणान्नित्यं सर्वतो जयमङ्गलम् ॥

॥ महोत्सवयात्राक्रमः ॥

मञ्चे चन्द्रार्कभूतेष्वपि वृषगजराड्राजताद्रिष्वथाश्वैः
सोमास्कन्दस्वरूपस्स्वयमुरुनयने गोरथे मार्गणो यः ।
स्थित्वा ब्रह्मोत्सवेषु त्रिषु च नटपतिः प्रत्यहं वीथियात्रां
कृत्वा स्नात्वा सह स्वं प्रविशति शिवया कुञ्चिताङ्घ्रिं भज्येऽहम् ॥

मङ्गलं चित्सभेशाय महनीयगुणात्मने ।
चक्रवर्तिनुताय श्रीनटराजाय मङ्गलम् ॥

॥ इति नटराजा कुचितापादा सहस्रनाम स्तोत्रं सम्पूर्ण ॥

इस अत्यंत विस्तृत, दार्शनिक और ज्ञानवर्धक लेख में हम गहराई से जानेंगे कि श्री नटराज कुंचितपाद सहस्रनाम स्तोत्रम् का तात्विक और आध्यात्मिक महत्व क्या है, इसके नित्य पाठ से जीवन में कौन से अकल्पनीय चमत्कार होते हैं, और इसे सिद्ध करने की प्रामाणिक साधना विधि, नियम व सावधानियां क्या हैं।

1. श्री नटराज कुंचितपाद सहस्रनाम स्तोत्रम् का दार्शनिक और आध्यात्मिक महत्व

इस महान सहस्रनाम की प्रचंड ऊर्जा, इसके पीछे छिपे शैव दर्शन और ‘नटराज-तत्व’ को समझने के लिए हमें पंचकृत्य (Five Cosmic Activities), अपस्मार और ‘कुंचितपाद’ के रहस्य को गहराई से समझना होगा।

पंचकृत्य (The Five Cosmic Activities) और कुंचितपाद

शैव सिद्धांत के अनुसार, भगवान शिव निरंतर पांच कार्य (पंचकृत्य) करते हैं:

  1. सृष्टि (Creation): डमरू की ध्वनि (नाद) से।

  2. स्थिति (Preservation): अभय मुद्रा (दाहिना हाथ) से।

  3. संहार (Destruction): अग्नि (बाएं हाथ में) से।

  4. तिरोभाव (Illusion/Concealment): अपस्मार को दबाने वाले दाहिने पैर से।

  5. अनुग्रह (Grace/Salvation): ऊपर उठे हुए बाएं पैर (कुंचितपाद) से।

‘श्री नटराज कुंचितपाद सहस्रनाम’ विशेष रूप से इसी 5वें कार्य (अनुग्रह/मोक्ष) की स्तुति है। यह संपूर्ण 1000 नाम केवल शिव के उस एक चरण को समर्पित हैं, जो भक्तों को माया और दुखों के सागर से बाहर निकालता है।

चिदंबरम रहस्य (The Secret of Chidambaram)

‘चित्’ का अर्थ है चेतना (Consciousness) और ‘अंबर’ का अर्थ है आकाश। चिदंबरम का अर्थ है— चेतना का आकाश (The Sky of Consciousness)। यह मंदिर मानव हृदय का प्रतीक है। जब हम इस सहस्रनाम का गान करते हैं, तो हम वास्तव में अपने ही हृदय-आकाश में भगवान नटराज के आनंद तांडव को महसूस कर रहे होते हैं। नटराज का ‘कुंचितपाद’ हमारे हृदय में स्थित अज्ञान के अंधकार को चीरकर सत्य का प्रकाश भर देता है।

‘सहस्रनाम’ का नाद-विज्ञान (The Science of 1000 Names)

सनातन धर्म में ‘1000’ की संख्या को पूर्णता, अनंतता और मस्तिष्क के सर्वोच्च ऊर्जा केंद्र—‘सहस्रार चक्र’ (Crown Chakra) का प्रतीक माना जाता है। नटराज के उठे हुए चरण के ये हज़ार नाम वास्तव में ब्रह्मांड के वे 1000 कंपन (Vibrations) हैं जो सृष्टि का संतुलन बनाए रखते हैं। जब साधक इन नामों का लयबद्ध उच्चारण करता है, तो उसके शरीर की 72,000 नाड़ियों में एक संगीत, एक लय (Rhythm) पैदा होती है, जो उसे ब्रह्मांड की परम चेतना के साथ एकरूप कर देती है।

2. श्री नटराज कुंचितपाद सहस्रनाम पाठ के अकल्पनीय और चमत्कारिक लाभ (Benefits)

भगवान नटराज साक्षात कला, ज्ञान, आनंद और मोक्ष के प्रदाता हैं। जो साधक पूर्ण श्रद्धा, सात्विकता, पवित्रता और एक निश्छल हृदय के साथ प्रतिदिन या प्रदोष के विशेष पर्वों पर इस सहस्रनाम का सस्वर पाठ या मानसिक श्रवण करता है, उसे जीवन में निम्नलिखित अमोघ और चमत्कारी लाभ प्राप्त होते हैं:

कला, शिक्षा और बौद्धिक लाभ (Arts & Intellect)

  • कला के क्षेत्र में सर्वोच्च सफलता: नर्तकों (Dancers), गायकों, संगीतकारों और अभिनेताओं के लिए यह सहस्रनाम साक्षात वेद है। इसके पाठ से साधक के भीतर कला का ऐसा असीमित प्रवाह फूटता है कि वह अपने क्षेत्र में विश्व-स्तरीय ख्याति प्राप्त करता है। उसकी कला में साक्षात ईश्वर का ‘अनुग्रह’ झलकने लगता है।

  • कुशाग्र बुद्धि और एकाग्रता: भगवान शिव परम योगी हैं। विद्यार्थियों और शोधकर्ताओं के लिए यह स्तुति मस्तिष्क की कोशिकाओं को झंकृत कर अपार स्मरण शक्ति और लेज़र-समान एकाग्रता (Focus) प्रदान करती है।

मनोवैज्ञानिक और आध्यात्मिक लाभ (Mental Peace & Spiritual Liberation)

  • अहंकार और अज्ञान का नाश: भगवान नटराज का दाहिना पैर ‘अपस्मार’ (अहंकार) को कुचलता है। इस स्तोत्र के पाठ से व्यक्ति के भीतर का व्यर्थ का घमंड, अज्ञान और मोह नष्ट हो जाता है, जिससे वह अत्यंत शांत और विनम्र बनता है।

  • तनाव और डिप्रेशन से पूर्ण मुक्ति: नटराज का नृत्य ‘आनंद तांडव’ है। यह स्तुति भयंकर अवसाद (Depression), चिंता और जीवन की नीरसता को नष्ट कर हृदय में एक अकारण आनंद (Cosmic Joy) भर देती है।

  • मोक्ष की प्राप्ति (Salvation): ‘कुंचितपाद’ की वंदना का मुख्य उद्देश्य ही जन्म-मरण के चक्र से मुक्ति है। अंत समय में यह शिव-चरण ही जीवात्मा का एकमात्र आश्रय बनता है।

लौकिक, शारीरिक और भौतिक लाभ (Worldly & Physical Well-being)

  • शारीरिक संतुलन और आरोग्य: जिस प्रकार नटराज का नृत्य परम संतुलन (Perfect Balance) का प्रतीक है, उसी प्रकार यह पाठ शरीर के वात, पित्त और कफ को संतुलित कर भयंकर रोगों से मुक्ति दिलाता है।

  • बाधाओं का समूल नाश: जीवन में यदि कार्य बार-बार रुक रहे हों (Stagnation), तो यह ब्रह्मांडीय नृत्य की ऊर्जा जीवन के रुके हुए प्रवाह को पुनः गतिमान कर देती है। दरिद्रता और दुर्भाग्य शिव के तेज से भस्म हो जाते हैं।

3. श्री नटराज कुंचितपाद सहस्रनाम की प्रामाणिक साधना और पाठ विधि (Sadhana Vidhi)

भगवान नटराज की उपासना अत्यंत सात्विक, लयबद्ध, और समर्पण-युक्त होती है। इस सिद्ध सहस्रनाम का पूर्ण और त्वरित फल प्राप्त करने के लिए शैव आगमों में बताई गई इस प्रामाणिक विधि का पालन करना अत्यंत चमत्कारी होता है:

उत्तम दिन, तिथि और मुहूर्त

  • दिन: भगवान शिव (नटराज) की आराधना के लिए सोमवार (Monday) का दिन अत्यंत श्रेष्ठ माना जाता है।

  • विशेष तिथियां: प्रदोष व्रत (प्रत्येक मास की त्रयोदशी), आर्द्रा दर्शनम् (मार्गशीर्ष मास का आर्द्रा नक्षत्र), महाशिवरात्रि, और मासिक शिवरात्रि के दिन इस सहस्रनाम का पाठ करना हज़ारों गुणा अधिक फलदायी होता है। आर्द्रा नक्षत्र भगवान नटराज का जन्म-नक्षत्र माना जाता है।

  • समय: पाठ का सबसे उत्तम समय ‘प्रदोष काल’ (सूर्यास्त से 45 मिनट पहले और 45 मिनट बाद का समय) या प्रातःकाल ‘ब्रह्म मुहूर्त’ होता है।

दिशा, आसन और वस्त्र का विधान

  • दिशा: पाठ करते समय अपना मुख सदैव पूर्व (East – ज्ञान के लिए) या उत्तर (North – हिमालय/शिव की दिशा) की ओर रखें।

  • आसन: बैठने के लिए सफेद, कुशा या बाघंबर (यदि उपलब्ध हो) के आसन का प्रयोग करें।

  • वस्त्र: स्नान करके पूर्ण रूप से स्वच्छ हो जाएं। पूजा में श्वेत (सफेद – White), भस्म रंग (Ash color), या हल्के पीले रंग के स्वच्छ वस्त्र धारण करना अत्यंत शुभ परिणाम देता है।

पीठ की स्थापना और पूजन सामग्री (Setup)

सामग्री / विधान विवरण
प्रतिमा / चित्र एक स्वच्छ लकड़ी की चौकी पर सफेद कपड़ा बिछाकर भगवान नटराज की पंचलोहा (अष्टधातु) की मूर्ति या सुंदर चित्र स्थापित करें। (नटराज की मूर्ति कला और शांति का प्रतीक है)।
दीपक भगवान नटराज के समक्ष गाय के शुद्ध घी का या तिल के तेल का एक अखंड दीपक प्रज्वलित करें। विभूति (भस्म) और बिल्वपत्र अवश्य रखें।
तिलक और शृंगार भगवान शिव को श्वेत चंदन और पवित्र भस्म (विभूति) की तीन रेखाएं (त्रिपुण्ड) लगाएं। स्वयं भी मस्तक पर त्रिपुण्ड धारण करें।
पुष्प और नैवेद्य उन्हें श्वेत पुष्प (मदार, धतूरा, चमेली) और बिल्वपत्र (Bel Patra) अत्यंत प्रिय हैं। बिल्वपत्र के बिना शिव पूजा अधूरी है।
ये भी पढ़ें:  Dharma Shasta Sahasranaam Stotram (श्री धर्मशास्ता सहस्रनाम स्तोत्रम्): पाठ कैसे करें? जानें साधना विधि, नियम, लाभ, महत्व और सावधानियां

दृढ़ संकल्प (Sankalpa)

पाठ से पूर्व दाएँ हाथ में थोड़ा सा जल, अक्षत (साबुत चावल), और एक पुष्प (या बिल्वपत्र) लें। अपना नाम, गोत्र और पाठ का स्पष्ट उद्देश्य बोलें (उदाहरण: “हे आनंद तांडव करने वाले नटराज, मैं अपने जीवन से समस्त अज्ञान, व्याधियों व बाधाओं के नाश, कला में निपुणता, और आपके कुंचितपाद की अहैतुकी कृपा के लिए इस सहस्रनाम का 41 दिन तक (या नित्य प्रदोष को) पाठ करूँगा/करूँगी”), और फिर जल ज़मीन पर छोड़ दें।

स्तोत्र का पाठ (Chanting Method & Archana)

  • सर्वप्रथम विघ्नहर्ता भगवान श्री गणेश और माता पार्वती (शिवकामी/शिवकामसुंदरी) का मानसिक ध्यान कर उन्हें साष्टांग प्रणाम करें।

  • महर्षि पतंजलि और व्याघ्रपाद का स्मरण करें (जिन्होंने चिदंबरम में नटराज का दर्शन किया था)।

  • भगवान शिव के पंचाक्षरी मंत्र “ॐ नमः शिवाय” की कम से कम 11 बार या एक माला (रुद्राक्ष की माला पर) जप करें।

  • अब पूर्ण एकाग्रता, हृदय में असीम शांति और एक लय (Rhythm) के साथ ‘श्री नटराज कुंचितपाद सहस्रनाम स्तोत्रम्’ का सस्वर पाठ आरंभ करें।

  • सहस्रार्चन विधि (अचूक उपाय): यदि आप कला या शिक्षा में अत्यंत शीघ्र सिद्धि चाहते हैं, तो प्रत्येक नाम (जैसे- ॐ कुंचितपादाय नमः, ॐ आनंदतांडवाय नमः) के साथ नटराज की मूर्ति पर एक बिल्वपत्र या श्वेत पुष्प अर्पित करें।

क्षमा प्रार्थना और सात्विक भोग (Naivedya)

पाठ पूर्ण होने के बाद भगवान नटराज को गाय के दूध, पंचामृत, सफेद मिष्ठान्न, या केवल मिश्री का सात्विक भोग लगाएं। अंत में कर्पूर से भगवान की आरती गाएं और साष्टांग दंडवत प्रणाम करते हुए पूजा-पाठ में हुई किसी भी अशुद्धि या उच्चारण की भूल के लिए क्षमा प्रार्थना अवश्य करें।

4. साधना के अत्यंत संवेदनशील और अनिवार्य नियम (Strict Rules for Sadhana)

भगवान शिव आशुतोष (शीघ्र प्रसन्न होने वाले) हैं, परंतु नटराज स्वरूप परम चेतना और अनुशासन का भी प्रतीक है। इस साधना का पूर्ण फल प्राप्त करने के लिए इन नियमों का कड़ाई से पालन करना अनिवार्य है:

  1. पूर्ण सात्विकता (Pure Sattvic Diet): अनुष्ठान के दौरान या नित्य पाठ करने वाले साधक को घर में और अपने आहार में मांस, मदिरा, अंडे, लहसुन, और प्याज का पूर्णतः त्याग कर देना चाहिए। तामसिक भोजन चेतना को गिराता है और नटराज की ऊर्जा को धारण करने में बाधक बनता है।

  2. कला और कलाकारों का सम्मान: नटराज कला के अधिपति हैं। जो व्यक्ति किसी कला (संगीत, नृत्य) का या कलाकारों का अपमान करता है, उसे इस सहस्रनाम का कभी कोई फल प्राप्त नहीं होता। कला को ईश्वरीय आराधना मानें।

  3. अहंकार शून्यता (Zero Ego): नटराज अपस्मार (अहंकार) को पैरों तले कुचलते हैं। यदि आपके भीतर धन, पद या विद्या का घमंड है, तो नटराज की कृपा नहीं मिलेगी। स्वयं को शिव का तुच्छ सेवक मानकर साधना करें।

  4. ब्रह्मचर्य का पालन (Celibacy): विशेष अनुष्ठान (जैसे 21 या 41 दिन का संकल्प) के दौरान शारीरिक और मानसिक रूप से पूर्ण ब्रह्मचर्य का पालन करें।

  5. क्रोध का परित्याग: शिव को क्रोध अत्यंत प्रिय है, लेकिन वे इसे अपने नियंत्रण में रखते हैं। साधक को भी अपने भीतर के क्रोध को पीकर (नीलकंठ की भांति) उसे रचनात्मक ऊर्जा में बदलना चाहिए।

5. उपासना में ध्यान रखने योग्य विशेष सावधानियां (Precautions)

श्री नटराज कुंचितपाद सहस्रनाम के पाठ में कुछ विशेष सावधानियां बरतनी चाहिए, ताकि साधना निर्विघ्न संपन्न हो और कोई विपरीत प्रभाव न पड़े:

  • तुलसी दल का निषेध: भगवान शिव की पूजा में ‘तुलसी’ (Tulsi leaves) का प्रयोग सर्वथा वर्जित है। उन्हें केवल बिल्वपत्र अर्पित करें।

  • उच्चारण और लय: चूँकि यह स्तोत्र नृत्य और नाद-ब्रह्म से जुड़ा है, इसलिए इसे पढ़ते समय एक लय (Rhythm) और प्रवाह होना चाहिए। यदि संस्कृत कठिन लगे, तो धीरे-धीरे शुद्ध उच्चारण करने का प्रयास करें, परंतु भाव को न टूटने दें।

  • प्रतिशोध की भावना का त्याग (No Revenge): यह स्तुति मोक्ष, आनंद और आत्म-उन्नति के लिए है। किसी व्यक्ति का अहित करने या अपना व्यक्तिगत बदला लेने की नीयत से इसका पाठ भूलकर भी न करें। नटराज की अग्नि भस्म करने वाली है; गलत मंशा से किया गया पाठ साधक को ही भस्म कर सकता है।

  • शारीरिक पवित्रता: बिना स्नान किए, गंदे वस्त्र पहनकर, जूठे मुंह, या अपवित्र अवस्था (सूतक, पातक) में मूर्ति, यंत्र या स्तोत्र की पुस्तक का स्पर्श सर्वथा वर्जित है।

6. आधुनिक युग में नटराज कुंचितपाद सहस्रनाम की असीम प्रासंगिकता (Relevance in Modern Era)

आज का आधुनिक युग अत्यधिक ‘तनाव’ (Stress), ‘अस्थिरता’ (Chaos), ‘मानसिक भटकाव’, और ‘गति’ (Speed) का युग है। लोग बिना रुके दौड़ रहे हैं, लेकिन उन्हें नहीं पता कि वे कहाँ जा रहे हैं। इस अंधी दौड़ ने आधुनिक मनुष्य को ‘डिप्रेशन’ (Depression), ‘एंग्जायटी’ (Anxiety), और ‘बर्नआउट’ (Burnout) का मरीज बना दिया है। जीवन से ‘लय’ (Rhythm) पूरी तरह गायब हो चुकी है।

‘श्री नटराज कुंचितपाद सहस्रनाम’ आधुनिक इंसान के इसी ‘असंतुलन’, ‘तनाव’ और ‘अहंकार’ का सबसे शक्तिशाली आध्यात्मिक और मनोवैज्ञानिक उपचार है:

  1. कॉस्मिक रिदम से जुड़ाव (Finding the Inner Rhythm): यह सहस्रनाम आधुनिक जीवन के ‘केओस’ (Chaos – अव्यवस्था) को शांत कर साधक के भीतर एक लय पैदा करता है। जब बाहरी दुनिया बहुत तेज़ और तनावपूर्ण हो जाती है, तो नटराज का स्मरण आपको आपके केंद्र (Center) में स्थिर (Grounded) रखता है।

  2. मानसिक संतुलन (Mental Balance): नटराज की मूर्ति ब्रह्मांड के सबसे उत्तम संतुलन (Perfect Equilibrium) का प्रतीक है—एक पैर पर नृत्य करते हुए संपूर्ण ब्रह्मांड को साधना। इस पाठ से व्यक्ति की भावनाएं (Emotions) संतुलित होती हैं; वह सुख में अत्यधिक उछलता नहीं और दुख में टूटता नहीं।

  3. ईगो (Ego) का शमन: आधुनिक कॉर्पोरेट दुनिया और सोशल मीडिया ने इंसान के अहंकार को बहुत बढ़ा दिया है। ‘अपस्मार’ का मर्दन करने वाले नटराज की स्तुति हमें यह सिखाती है कि हमारी उपलब्धियां कितनी भी बड़ी क्यों न हों, हमें ईश्वर के समक्ष विनम्र ही रहना है। यह विनम्रता ही सच्ची सफलता है।

  4. रचनात्मकता का विस्फोट (Burst of Creativity): आज के युग में हर प्रोफेशन में ‘आउट ऑफ द बॉक्स’ (Out of the box) सोचने की आवश्यकता है। नटराज की यह ऊर्जा मस्तिष्क के सोए हुए हिस्सों को जाग्रत कर असीमित रचनात्मकता प्रदान करती है।

Nataraja Kunchitapaada Sahasranama Stotram (श्री नटराज कुंचितपाद सहस्रनाम स्तोत्रम्) केवल 1000 संस्कृत शब्दों का एक काव्यात्मक संकलन नहीं है; यह उस ब्रह्मांडीय नर्तक के चरणों की साक्षात वंदना है, जिसके एक पदक्षेप से ब्रह्मांड बनता है और दूसरे से नष्ट हो जाता है। जब एक भक्त पूर्ण शरणागति, सात्विकता और अपने अहंकार को त्यागकर, उस मुड़े हुए, ऊपर उठे चरण (कुंचितपाद) की शरण में जाता है, तो साक्षात महाकाल उसे भवसागर के सभी दुखों से खींचकर बाहर निकाल लेते हैं।

भगवान नटराज अत्यंत कृपालु, आनंद-स्वरूप और अपने भक्तों को जन्म-मरण के चक्र से मुक्त करने वाले साक्षात परब्रह्म हैं। जब भी आपको लगे कि जीवन की लय टूट गई है, तनाव ने आपको घेर लिया है, आपकी कला या शिक्षा में बाधाएं आ रही हैं, और मन अत्यंत अशांत है, तो प्रदोष काल में या सोमवार की सुबह श्वेत आसन पर बैठें, घी का दीपक जलाएं, बिल्वपत्र अर्पित करें, और पूर्ण हृदय से इस स्तोत्र का गान करते हुए अपने ‘नटराज’ को पुकारें।

आप स्वयं अनुभव करेंगे कि नटराज के उस ‘कुंचितपाद’ ने आपके जीवन की सारी बाधाओं, अज्ञानता और भयों को कुचल दिया है, और साक्षात आनंद तांडव करने वाले शिव ने आपके जीवन को अपार सफलता, असीम शांति, रचनात्मकता और परम मोक्ष के दिव्य प्रकाश से भर दिया है। ॐ नमः शिवाय! नटराज राज नमो नमः!

श्री नटराज कुंचितपाद सहस्रनाम स्तोत्रम्ः अक्सर पूछे जाने वाले प्रश्न (FAQs)

1. श्री नटराज कुंचितपाद सहस्रनाम स्तोत्रम् क्या है और इसका क्या महत्व है?

यह स्तोत्र चिदंबरम के आराध्य, ब्रह्मांडीय नर्तक भगवान शिव (नटराज) के ‘कुंचितपाद’ (हवा में ऊपर उठे हुए बाएं चरण) की स्तुति में रचे गए 1000 परम पवित्र नामों का संकलन है। इसका महत्व इसलिए सर्वोपरि है क्योंकि नटराज का यह उठा हुआ चरण ‘अनुग्रह’ (ईश्वरीय कृपा) और ‘मोक्ष’ का प्रतीक है। इस स्तोत्र का गान अज्ञान को मिटाकर, कला, शिक्षा और आत्म-ज्ञान में सर्वोच्च सफलता प्रदान करता है।

2. इस सहस्रनाम का पाठ करने से जीवन में सबसे बड़ा लाभ क्या प्राप्त होता है?

इस सहस्रनाम का सबसे बड़ा और प्रत्यक्ष लाभ ‘कला और शिक्षा के क्षेत्र में अजेय सफलता’, ‘अहंकार (अपस्मार) का नाश’ और ‘परम मानसिक शांति’ है। इसके नियमित पाठ से जीवन का खोया हुआ संतुलन वापस आता है, भयंकर अवसाद (Depression) दूर होता है, और अंततः साधक को जन्म-मरण के चक्र से मुक्ति (मोक्ष) प्राप्त होती है।

3. नटराज कुंचितपाद सहस्रनाम का पाठ करने के लिए सप्ताह का कौन सा दिन और समय सर्वोत्तम है?

भगवान नटराज की आराधना के लिए ‘सोमवार’ (Monday) का दिन सबसे श्रेष्ठ माना जाता है। इसके अलावा ‘प्रदोष’ (त्रयोदशी), महाशिवरात्रि, और ‘आर्द्रा दर्शनम्’ के दिन इसका पाठ अनंत फलदायी होता है। इसका पाठ करने का सबसे उत्तम समय ‘प्रदोष काल’ (सूर्यास्त के आस-पास का समय) या प्रातःकाल (ब्रह्म मुहूर्त) होता है।

4. क्या सामान्य गृहस्थ व्यक्ति इस स्तोत्र का पाठ कर सकते हैं, और क्या नटराज की मूर्ति घर में रखना शुभ है?

जी हाँ, कोई भी गृहस्थ (स्त्री या पुरुष) पूर्ण सात्विकता और पवित्रता का पालन करते हुए इसका पाठ कर सकता है। नटराज की मूर्ति घर में रखने को लेकर समाज में कुछ भ्रांतियां हैं कि यह ‘तांडव’ (विनाश) का प्रतीक है। परंतु चिदंबरम परंपरा के अनुसार, नटराज का ‘आनंद तांडव’ सृजन, कला और मोक्ष का प्रतीक है। घर में एक सौम्य और शांत भाव वाली नटराज की मूर्ति रखना अत्यंत शुभ, कला को प्रेरित करने वाला और घर के वास्तु दोषों को मिटाने वाला माना गया है।

5. भगवान नटराज की पूजा और इस साधना का सबसे बड़ा नियम क्या है?

नटराज साधना का सबसे बड़ा और अनिवार्य नियम ‘अहंकार का पूर्ण परित्याग’ और ‘सात्विक जीवन’ है। जो साधक अपनी उपलब्धियों पर घमंड करता है या मांस-मदिरा का सेवन करता है, उसे इस स्तुति का कोई फल प्राप्त नहीं होता। इसके अतिरिक्त, कला और कलाकारों का सम्मान करना, और भगवान शिव की पूजा में कभी भी ‘तुलसी’ का प्रयोग न करना इस साधना के मूलभूत नियम हैं।

"नमस्कार! मैं अमित तिवारी हूँ, और आप मुझे एक 'साधक' के रूप में जान सकते हैं। बचपन से ही सनातन धर्म, तंत्र-मंत्र और आध्यात्मिक साधनाओं ने मुझे अपनी ओर गहराई से आकर्षित किया है। वर्षों के निरंतर अध्ययन, गुरु-कृपा और अपने व्यक्तिगत साधना-अनुभवों से मैंने जो कुछ भी सीखा है, उसे मैं sadhnas.in के माध्यम से आपके साथ साझा कर रहा हूँ। मेरा मुख्य उद्देश्य इंटरनेट पर फैले भ्रम को दूर करके प्रामाणिक, सत्य और शास्त्र-सम्मत जानकारी को बेहद सरल भाषा में आप तक पहुँचाना है। मैं कोई गुरु या उपदेशक नहीं हूँ, बल्कि आप ही की तरह ईश्वर की खोज में निकला एक राही हूँ। मेरी यही कोशिश है कि मेरे अनुभवों और लेखनी से आपकी आध्यात्मिक यात्रा और भी सुगम व सफल हो सके।"

error: Content is protected !!