Shri Narasimha Sahasranama Stotram (श्री नरसिंह सहस्रनाम स्तोत्रम्): पाठ कैसे करें? जानें साधना विधि, नियम, लाभ, महत्व और सावधानियांIt takes 36 minutes... to read this article !

सनातन धर्म, पौराणिक वांग्मय और विशेषकर वैष्णव परंपरा के अनंत आध्यात्मिक आकाश में, जब ब्रह्मांड की सबसे तीव्र, त्वरित, उग्र और साथ ही अपने शरणागत भक्त के लिए अत्यंत कोमल व करुणामयी शक्ति की बात आती है, तो साक्षात परब्रह्म भगवान श्री नरसिंह (Lord Narasimha) का स्वरूप सर्वोपरि माना जाता है। भगवान नरसिंह श्रीहरि विष्णु के चौथे मुख्य अवतार हैं, जो आधे मानव और आधे सिंह के रूप में प्रकट हुए थे (नर अर्थात् मनुष्य और सिंह अर्थात् शेर)।

पौराणिक इतिहास के अनुसार, जब दैत्यराज हिरण्यकशिपु ने अपनी कठोर तपस्या के बल पर ब्रह्मा जी से ऐसा दुर्लभ वरदान प्राप्त कर लिया जिसने उसे व्यावहारिक रूप से अमर बना दिया—कि वह न दिन में मरे न रात में, न अस्त्र से न शस्त्र से, न घर के भीतर न बाहर, न मनुष्य से न पशु से, न आकाश में न पृथ्वी पर—तब उसने स्वयं को ही ईश्वर घोषित कर दिया। अधर्म और अत्याचार जब अपनी पराकाष्ठा पर पहुँच गए और उसने अपने ही परम भक्त पुत्र बालक प्रह्लाद (Devotee Prahlada) को मारना चाहा, तब भगवान विष्णु ने हिरण्यकशिपु के वरदान की हर एक शर्त का सम्मान करते हुए, संध्याकाल में, राजसभा के खंभे (Stambha) को चीरकर इस अद्भुत, अकल्पनीय और विराट ‘नरसिंह’ रूप में अवतार लिया। उन्होंने अपनी जांघों पर रखकर अपने तीखे नाखूनों से उस अत्याचारी असुर का वध किया और ब्रह्मांड में पुनः धर्म और निर्भयता की स्थापना की।

भगवान नरसिंह की इसी प्रचंड ब्रह्मांडीय ऊर्जा, उनके अजेय प्रताप, और उनकी परम भक्त-वत्सल करुणा को अपने भीतर समाहित करने के लिए सिद्ध ऋषियों ने ‘ब्रह्मांड पुराण’ (Brahmanda Purana) के अंतर्गत उनके एक हज़ार (1000) परम पवित्र, जाग्रत और गुप्त नामों का संकलन किया है, जिसे शास्त्रों में ‘श्री नरसिंह सहस्रनाम स्तोत्रम्’ (Shri Narasimha Sahasranama Stotram) के नाम से जाना जाता है।

‘सहस्रनाम’ का अर्थ है— एक हज़ार नाम। यह कोई साधारण काव्यात्मक वंदना या केवल नामों की एक सूची नहीं है; यह शब्द-विज्ञान का एक ऐसा जाग्रत महामंत्र, एक ऐसा अभेद्य शब्द-ब्रह्मास्त्र है, जो जीवन के भयंकर से भयंकर झंझावातों, प्राणघातक शत्रुओं के षड्यंत्रों, असाध्य रोगों, अकाल मृत्यु के संकट और तीव्र से तीव्र तांत्रिक अभिचार कर्मों (Black Magic) को पल भर में भस्म करने की शक्ति रखता है। जब जीवन में हर तरफ से निराशा के बादल घिर जाएं, कोर्ट-कचहरी या कर्जों ने आपको मानसिक रूप से मृतप्राय कर दिया हो, और संकट प्राण लेने पर उतारू हो, तब इस ‘श्री नरसिंह सहस्रनाम’ का आश्रय लेना साक्षात काल को भी पीछे धकेलने और जीवन में अभय प्राप्त करने के समान सिद्ध होता है।

नरसिम्हा सहस्रनाम स्तोत्रं हिंदी  |  Narasimha Sahasranama Stotram

॥ लक्ष्मीनृसिंहसहस्रनामस्तोत्रम् ॥

॥ स्तोत्रस्य पूर्वपीठिका ॥

॥ ॐ मार्कण्डेय उवाच ॥

एवं युद्धमभूद्घोरं रौद्रं दैत्यबलैः सह ।
नृसिंहस्याङ्गसम्भूतैर्नारसिंहैरनेकशः ॥ १ ॥

नरसिम्हा सहस्रनाम स्तोत्रं

दैत्यकोटिहतास्तत्र केचिद्भीताः पलायिताः ।
तं दृष्ट्वातीव सङ्क्रुद्धो हिरण्यकशिपुः स्वयम् ॥ २ ॥

नरसिम्हा सहस्रनाम स्तोत्रं

भूतपूर्वैरमृत्युर्मे इति ब्रह्मवरोद्धतः ।
ववर्ष शरवर्षेण नारसिंहो भृशं बली ॥ ३ ॥

नरसिम्हा सहस्रनाम स्तोत्रं

द्वन्द्वयुद्धमभूदुग्रं दिव्यवर्षसहस्रकम् ।
दैत्येन्द्रसाहसं दृष्ट्वा देवाश्चेन्द्रपुरोगमाः ॥ ४ ॥

नरसिम्हा सहस्रनाम स्तोत्रं

श्रेयः कस्य भवेदत्र इति चिन्तापराभवन् ।
तदा क्रुद्धो नृसिंहस्तु दैत्येन्द्रप्रहितान्यपि ॥ ५ ॥

विष्णुचक्रं महाचक्रं कालचक्रं तु वैष्णवम् ।
रौद्रं पाशुपतं ब्राह्मं कौबेरं कुलिशासनम् ॥ ६ ॥

नरसिम्हा सहस्रनाम स्तोत्रं

आग्नेयं वारुणं सौम्यं मोहनं सौरपार्वतम् ।
भार्गवादिबहून्यस्त्राण्यभक्षयत कोपनः ॥ ७ ॥

सन्ध्याकाले सभाद्वारे स्वाङ्के निक्षिप्यभैरवः ।
ततः खट्गधरं दैत्यं जग्राह नरकेसरी ॥ ८ ॥

नरसिम्हा सहस्रनाम स्तोत्रं

हिरण्यकशिपोर्वक्षो विदार्यातीव रोषितः ।
उद्धृत्य चान्त्रमालानि नखैर्वज्रसमप्रभैः ॥ ९ ॥

मेने कृतार्थमात्मानं सर्वतः पर्यवैक्षत ।
हर्षिता देवताः सर्वाः पुष्पवृष्टिमवाकिरन् ॥ १० ॥

नरसिम्हा सहस्रनाम स्तोत्रं

देवदुन्दुभयो नेदुर्विमलाश्च दिशोऽभवन् ।
नरसिंह मतीवोग्रं विकीर्णवदनं भृशम् ॥ ११ ॥

लेलिहानं च गर्जन्तं कालानलसमप्रभम् ।
अतिरौद्रं महाकायं महादंष्ट्रं महारुतम् ॥ १२ ॥

नरसिम्हा सहस्रनाम स्तोत्रं

महासिंहं महारूपं दृष्ट्वा सङ्क्षुभितं जगत् ।
सर्वदेवगणैः सार्थं तत्रागत्य पितामहः ॥ १३ ॥

आगन्तुकैर्भूतपूर्वैर्वर्तमानैरनुत्तमैः ।
गुणैर्नामसहस्रेण तुष्टाव श्रुतिसम्मतैः ॥ १४ ॥

॥ अथ श्रीनृसिंहसहस्रनामस्तोत्रम् ॥

ॐ नमः श्रीमद्दिव्यलक्ष्मीनृसिंहसहस्रनामस्तोत्रमहामन्त्रस्य
ब्रह्मा ऋषिः श्रीलक्ष्मीनृसिंहोदेवता । अनुष्टुप्छन्दः
श्रीनृसिंहःपरमात्मा बीजं लक्ष्मीर्मायाशक्तिः जीवोबीजं
बुद्धिः शक्तिः उदानवायुः बीजं सरस्वती शक्तिः व्यञ्जनानि
बीजानि स्वराः शक्तयः ॐ क्ष्रौं ह्रीं इति बीजानि ॐ श्रीं
अं आं इति शक्तयः विकीर्णनखदंष्ट्रायुधायेति कीलकं
अकारादिति बोधकं श्रीलक्ष्मीनृसिंहप्रसादसिद्ध्यर्थे
श्रीलक्ष्मीनृसिंहसहस्रनामस्तोत्रमन्त्रजपे विनियोगः –

॥ ब्रह्मोवाच ॥

ॐ श्रीलक्ष्मीनृसिंहाय नमः । अङ्गुष्ठाभ्यां नमः
ॐ वज्रनखाय नमः । तर्जनीभ्यां नमः
ॐ महारुद्राय नमः । मध्यमाभ्यां नमः
ॐ सर्वतोमुखाय नमः । अनामिकाभ्यां नमः
ॐ विकटास्याय नमः । कनिष्ठिकाभ्यां नमः
ॐ वीराय नमः । करतलकरपृष्ठाभ्यां नमः

नरसिम्हा सहस्रनाम स्तोत्रं

एवं हृदयादिन्यासः – इति दिग्बन्धः
ॐ ऐन्द्रीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ॐ आग्नेयीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ॐ याम्यां दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ॐ नैऋतिं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ॐ वारुणीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ॐ वायवीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ॐ कौबेरीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ॐ ईशानीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ॐ ऊर्ध्वां दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ॐ अधस्ताद्दिशं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ॐ अन्तरिक्षां दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा । नरसिम्हा सहस्रनाम स्तोत्रं

॥ अथ ध्यानम् ॥

सत्यज्ञानसुखस्वरूपममलं क्षीराब्धिमध्ये स्थितं
योगारूढमतिप्रसन्नवदनं भूषासहस्रोज्वलम् ।
त्र्यक्षं चक्रपिनाकस्नाभयकरान्बिभ्राणमर्कच्छविं
छत्रीभूतफणीन्द्रमिन्दुधवलं लक्ष्मीनृसिंहं भजे ॥ १ ॥

उपास्महे नृसिंहाख्यं ब्रह्म वेदान्तगोचरम् ।
भूयोलालितसंसारच्छेदहेतुं जगद्गुरुम् ॥ २ ॥

नरसिम्हा सहस्रनाम स्तोत्रं

ॐ ह्रीं श्रीं ऐं क्ष्रौं

॥ ब्रह्मोवाच ॥

ॐ नमो नारसिंहाय वज्रदंष्ट्राय वज्रिणे ।
वज्रदेहाय वज्राय नमो वज्रनखाय च ॥ १ ॥

वासुदेवाय वन्द्याय वरदाय वरात्मने ।
वरदाभयहस्ताय वराय वररूपिणे ॥ २ ॥

वरेण्याय वरिष्ठाय श्रीवराय नमो नमः ।
प्रह्लादवरदायैव प्रत्यक्षवरदाय च ॥ ३ ॥

परात्परपरेशाय पवित्राय पिनाकिने ।
पावनाय प्रसन्नाय पाशिने पापहारिणे ॥ ४ ॥

नरसिम्हा सहस्रनाम स्तोत्रं

पुरुष्टुताय पुण्याय पुरुहूताय ते नमः ।
तत्पुरुषाय तथ्याय पुराणपुरुषाय च ॥ ५ ॥

पुरोधसे पूर्वजाय पुष्कराक्षाय ते नमः ।
पुष्पहासाय हासाय महाहासाय शार्ङ्गिणे ॥ ६ ॥

नरसिम्हा सहस्रनाम स्तोत्रं

सिंहाय सिंहराजाय जगद्वश्याय ते नमः ।
अट्टहासाय रोषाय जलवासाय ते नमः ॥ ७ ॥

भूतावासाय भासाय श्रीनिवासाय खड्गिने ।
खड्गजिह्वाय सिंहाय खड्गवासाय ते नमः ॥ ८ ॥

नमो मूलाधिवासाय धर्मवासाय धन्विने ।
धनञ्जयाय धन्याय नमो मृत्युञ्जयाय च ॥ ९ ॥

शुभञ्जयाय सूत्राय नमः शत्रुञ्जयाय च ।
निरञ्जनाय नीराय निर्गुणाय गुणाय च ॥ १० ॥

नरसिम्हा सहस्रनाम स्तोत्रं

निष्प्रपञ्चाय निर्वाणप्रदाय निबिडाय च ।
निरालम्बाय नीलाय निष्कलाय कलाय च ॥ ११ ॥

निमेषाय निबन्धाय निमेषगमनाय च ।
निर्द्वन्द्वाय निराशाय निश्चयाय निराय च ॥ १२ ॥

निर्मलाय निबन्धाय निर्मोहाय निराकृते ।
नमो नित्याय सत्याय सत्कर्मनिरताय च ॥ १३ ॥

सत्यध्वजाय मुञ्जाय मुञ्जकेशाय केशिने ।
हरीशाय च शेषाय गुडाकेशाय वै नमः ॥ १४ ॥

सुकेशायोर्ध्वकेशाय केशिसंहारकाय च ।
जलेशाय स्थलेशाय पद्मेशायोग्ररूपिणे ॥ १५ ॥

कुशेशयाय कूलाय केशवाय नमो नमः ।
सूक्तिकर्णाय सूक्ताय रक्तजिह्वाय रागिणे ॥ १६ ॥

नरसिम्हा सहस्रनाम स्तोत्रं

दीप्तरूपाय दीप्ताय प्रदीप्ताय प्रलोभिने ।
प्रच्छिन्नाय प्रबोधाय प्रभवे विभवे नमः ॥ १७ ॥

प्रभञ्जनाय पान्थाय प्रमायाप्रमिताय च ।
प्रकाशाय प्रतापाय प्रज्वलायोज्वलाय च ॥ १८ ॥

ज्वालामालास्वरूपाय ज्वलज्जिह्वाय ज्वालिने ।
महोज्ज्वलाय कालाय कालमूर्तिधराय च ॥ १९ ॥

कालान्तकाय कल्पाय कलनाय कृते नमः ।
कालचक्राय शक्राय वषट्चक्राय चक्रिणे ॥ २० ॥

नरसिम्हा सहस्रनाम स्तोत्रं

अक्रूराय कृतान्ताय विक्रमाय क्रमाय च ।
कृत्तिने कृत्तिवासाय कृतघ्नाय कृतात्मने ॥ २१ ॥

सङ्क्रमाय च क्रुद्धाय क्रान्तलोकत्रयाय च ।
अरूपाय स्वरूपाय हरये परमात्मने ॥ २२ ॥

अजयायादिदेवाय अक्षयाय क्षयाय च ।
अघोराय सुघोराय घोराघोरतराय च ॥ २३ ॥

नमोऽस्त्वघोरवीर्याय लसद्घोराय ते नमः ।
घोराध्यक्षाय दक्षाय दक्षिणार्याय शम्भवे ॥ २४ ॥

अमोघाय गुणौघाय अनघायाघहारिणे ।
मेघनादाय नादाय तुभ्यं मेघात्मने नमः ॥ २५ ॥

मेघवाहनरूपाय मेघश्यामाय मालिने ।
व्यालयज्ञोपवीताय व्याघ्रदेहाय वै नमः ॥ २६ ॥

व्याघ्रपादाय च व्याघ्रकर्मिणे व्यापकाय च ।
विकटास्याय वीराय विष्टरश्रवसे नमः ॥ २७ ॥

विकीर्णनखदंष्ट्राय नखदंष्ट्रायुधाय च ।
विश्वक्सेनाय सेनाय विह्वलाय बलाय च ॥ २८ ॥

विरूपाक्षाय वीराय विशेषाक्षाय साक्षिणे ।
वीतशोकाय विस्तीर्णवदनाय नमो नमः ॥ २९ ॥

विधानाय विधेयाय विजयाय जयाय च ।
विबुधाय विभावाय नमो विश्वम्भराय च ॥ ३० ॥

वीतरागाय विप्राय विटङ्कनयनाय च ।
विपुलाय विनीताय विश्वयोने नमो नमः ॥ ३१ ॥

चिदम्बराय वित्ताय विश्रुताय वियोनये ।
विह्वलाय विकल्पाय कल्पातीताय शिल्पिने ॥ ३२ ॥

कल्पनाय स्वरूपाय फणितल्पाय वै नमः ।
तडित्प्रभाय तार्याय तरुणाय तरस्विने ॥ ३३ ॥

तपनाय तरक्षाय तापत्रयहराय च ।
तारकाय तमोघ्नाय तत्त्वाय च तपस्विने ॥ ३४ ॥

तक्षकाय तनुत्राय तटिने तरलाय च ।
शतरूपाय शान्ताय शतधाराय ते नमः ॥ ३५ ॥

शतपत्राय तार्क्ष्याय स्थितये शतमूर्तये ।
शतक्रतुस्वरूपाय शाश्वताय शतात्मने ॥ ३६ ॥

नमः सहस्रशिरसे सहस्रवदनाय च ।
सहस्राक्षाय देवाय दिशश्रोत्राय ते नमः ॥ ३७ ॥

नमः सहस्रजिह्वाय महाजिह्वाय ते नमः ।
सहस्रनामधेयाय सहस्राक्षिधराय च ॥ ३८ ॥

सहस्रबाहवे तुभ्यं सहस्रचरणाय च ।
सहस्रार्कप्रकाशाय सहस्रायुधधारिणे ॥ ३९ ॥

नमः स्थूलाय सूक्ष्माय सुसूक्ष्माय नमो नमः ।
सुक्षुण्याय सुभिक्षाय सुराध्यक्षाय शौरिणे ॥ ४० ॥

धर्माध्यक्षाय धर्माय लोकाध्यक्षाय वै नमः ।
प्रजाध्यक्षाय शिक्षाय विपक्षक्षयमूर्तये ॥ ४१ ॥

कलाध्यक्षाय तीक्ष्णाय मूलाध्यक्षाय ते नमः ।
अधोक्षजाय मित्राय सुमित्रवरुणाय च ॥ ४२ ॥

शत्रुघ्नाय अविघ्नाय विघ्नकोटिहराय च ।
रक्षोघ्नाय तमोघ्नाय भूतघ्नाय नमो नमः ॥ ४३ ॥

भूतपालाय भूताय भूतवासाय भूतिने ।
भूतबेतालघाताय भूताधिपतये नमः ॥ ४४ ॥

भूतग्रहविनाशाय भूतसंयमते नमः ।
महाभूताय भृगवे सर्वभूतात्मने नमः ॥ ४५ ॥

सर्वारिष्टविनाशाय सर्वसम्पत्कराय च ।
सर्वाधाराय सर्वाय सर्वार्तिहरये नमः ॥ ४६ ॥

सर्वदुःखप्रशान्ताय सर्वसौभाग्यदायिने ।
सर्वज्ञायाप्यनन्ताय सर्वशक्तिधराय च ॥ ४७ ॥

सर्वैश्वर्यप्रदात्रे च सर्वकार्यविधायिने ।
सर्वज्वरविनाशाय सर्वरोगापहारिणे ॥ ४८ ॥

सर्वाभिचारहन्त्रे च सर्वैश्वर्यविधायिने ।
पिङ्गाक्षायैकश‍ृङ्गाय द्विश‍ृङ्गाय मरीचये ॥ ४९ ॥

बहुश‍ृङ्गाय लिङ्गाय महाश‍ृङ्गाय ते नमः ।
माङ्गल्याय मनोज्ञाय मन्तव्याय महात्मने ॥ ५० ॥

महादेवाय देवाय मातुलिङ्गधराय च ।
महामायाप्रसूताय प्रस्तुताय च मायिने ॥ ५१ ॥

अनन्तानन्तरूपाय मायिने जलशायिने ।
महोदराय मन्दाय मददाय मदाय च ॥ ५२ ॥

मधुकैटभहन्त्रे च माधवाय मुरारये ।
महावीर्याय धैर्याय चित्रवार्याय ते नमः ॥ ५३ ॥

चित्रकूर्माय चित्राय नमस्ते चित्रभानवे ।
मायातीताय मायाय महावीराय ते नमः ॥ ५४ ॥

महातेजाय बीजाय तेजोधाम्ने च बीजिने ।
तेजोमय नृसिंहाय नमस्ते चित्रभानवे ॥ ५५ ॥

ये भी पढ़ें:  Shri Vishnu Sahasranama (श्री विष्णु सहस्त्रनाम): पाठ कैसे करें? जानें साधना विधि, नियम, लाभ, महत्व और सावधानियां

महादंष्ट्राय तुष्टाय नमः पुष्टिकराय च ।
शिपिविष्टाय हृष्टाय पुष्टाय परमेष्ठिने ॥ ५६ ॥

विशिष्टाय च शिष्टाय गरिष्ठायेष्टदायिने ।
नमो ज्येष्ठाय श्रेष्ठाय तुष्टायामिततेजसे ॥ ५७ ॥

अष्टाङ्गन्यस्तरूपाय सर्वदुष्टान्तकाय च ।
वैकुण्ठाय विकुण्ठाय केशिकण्ठाय ते नमः ॥ ५८ ॥

कण्ठीरवाय लुण्ठाय निःशठाय हठाय च ।
सत्त्वोद्रिक्ताय रुद्राय ऋग्यजुस्सामगाय च ॥ ५९ ॥

ऋतुध्वजाय वज्राय मन्त्रराजाय मन्त्रिणे ।
त्रिनेत्राय त्रिवर्गाय त्रिधाम्ने च त्रिशूलिने ॥ ६० ॥

त्रिकालज्ञानरूपाय त्रिदेहाय त्रिधात्मने ।
नमस्त्रिमूर्तिविद्याय त्रितत्त्वज्ञानिने नमः ॥ ६१ ॥

अक्षोभ्यायानिरुद्धाय अप्रमेयाय भानवे ।
अमृताय अनन्ताय अमितायामितौजसे ॥ ६२ ॥

अपमृत्युविनाशाय अपस्मारविघातिने ।
अन्नदायान्नरूपाय अन्नायान्नभुजे नमः ॥ ६३ ॥

नाद्याय निरवद्याय विद्यायाद्भुतकर्मणे ।
सद्योजाताय सङ्घाय वैद्युताय नमो नमः ॥ ६४ ॥

अध्वातीताय सत्त्वाय वागतीताय वाग्मिने ।
वागीश्वराय गोपाय गोहिताय गवाम्पते ॥ ६५ ॥

गन्धर्वाय गभीराय गर्जितायोर्जिताय च ।
पर्जन्याय प्रबुद्धाय प्रधानपुरुषाय च ॥ ६६ ॥

पद्माभाय सुनाभाय पद्मनाभाय मानिने ।
पद्मनेत्राय पद्माय पद्मायाः पतये नमः ॥ ६७ ॥

पद्मोदराय पूताय पद्मकल्पोद्भवाय च ।
नमो हृत्पद्मवासाय भूपद्मोद्धरणाय च ॥ ६८ ॥

शब्दब्रह्मस्वरूपाय ब्रह्मरूपधराय च ।
ब्रह्मणे ब्रह्मरूपाय पद्मनेत्राय ते नमः ॥ ६९ ॥

ब्रह्मदाय ब्राह्मणाय ब्रह्मब्रह्मात्मने नमः ।
सुब्रह्मण्याय देवाय ब्रह्मण्याय त्रिवेदिने ॥ ७० ॥

परब्रह्मस्वरूपाय पञ्चब्रह्मात्मने नमः ।
नमस्ते ब्रह्मशिरसे तदाऽश्वशिरसे नमः ॥ ७१ ॥

अथर्वशिरसे नित्यमशनिप्रमिताय च ।
नमस्ते तीक्ष्णदंष्ट्राय लोलाय ललिताय च ॥ ७२ ॥

लावण्याय लवित्राय नमस्ते भासकाय च ।
लक्षणज्ञाय लक्षाय लक्षणाय नमो नमः ॥ ७३ ॥

लसद्दीप्ताय लिप्ताय विष्णवे प्रभविष्णवे ।
वृष्णिमूलाय कृष्णाय श्रीमहाविष्णवे नमः ॥ ७४ ॥

पश्यामि त्वां महासिंहं हारिणं वनमालिनम् ।
किरीटिनं कुण्डलिनं सर्वाङ्गं सर्वतोमुखम् ॥ ७५ ॥

सर्वतः पाणिपादोरं सर्वतोऽक्षि शिरोमुखम् ।
सर्वेश्वरं सदातुष्टं समर्थं समरप्रियम् ॥ ७६ ॥

बहुयोजनविस्तीर्णं बहुयोजनमायतम् ।
बहुयोजनहस्ताङ्घ्रिं बहुयोजननासिकम् ॥ ७७ ॥

महारूपं महावक्त्रं महादंष्ट्रं महाभुजम् ।
महानादं महारौद्रं महाकायं महाबलम् ॥ ७८ ॥

आनाभेर्ब्रह्मणो रूपमागलाद्वैष्णवं तथा ।
आशीर्षाद्रन्ध्रमीशानं तदग्रे सर्वतः शिवम् ॥ ७९ ॥

नमोऽस्तु नारायण नारसिंह नमोऽस्तु नारायण वीरसिंह ।
नमोऽस्तु नारायण क्रूरसिंह नमोऽस्तु नारायण दिव्यसिंह ॥ ८० ॥

नमोऽस्तु नारायण व्याघ्रसिंह नमोऽस्तु नारायण पुच्छसिंह ।
नमोऽस्तु नारायण पूर्णसिंह नमोऽस्तु नारायण रौद्रसिंह ॥ ८१ ॥

नमो नमो भीषणभद्रसिंह नमो नमो विह्वलनेत्रसिंह ।
नमो नमो बृंहितभूतसिंह नमो नमो निर्मलचित्रसिंह ॥ ८२ ॥

नमो नमो निर्जितकालसिंह नमो नमः कल्पितकल्पसिंह ।
नमो नमो कामदकामसिंह नमो नमस्ते भुवनैकसिंह ॥ ८३ ॥

द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः ।
दृष्ट्वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन् ॥ ८४ ॥

अमी हित्वा सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति ।
स्वस्तीत्युक्त्वा मुनयः सिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥ ८५ ॥

रुद्रादित्यावसवो ये च साध्या विश्वेदेवा मरुतश्चोष्मपाश्च ।
गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ति त्वां विस्मिताश्चैव सर्वे ॥ ८६ ॥

लेलिह्यसे ग्रसमानः समन्ताल्लोकान्समग्रान्वदनैर्ज्वलद्भिः ।
तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो ॥ ८७ ॥

भविष्णुस्त्वं सहिष्णुस्त्वं भ्रजिष्णुर्जिष्णुरेव च ।
पृथिवीमन्तरीक्षं त्वं पर्वतारण्यमेव च ॥ ८८ ॥

कलाकाष्ठा विलिप्तस्त्वं मुहूर्तप्रहरादिकम् ।
अहोरात्रं त्रिसन्ध्या च पक्षमासर्तुवत्सराः ॥ ८९ ॥

युगादिर्युगभेदस्त्वं संयुगो युगसन्धयः ।
नित्यं नैमित्तिकं दैनं महाप्रलयमेव च ॥ ९० ॥

करणं कारणं कर्ता भर्ता हर्ता त्वमीश्वरः ।
सत्कर्ता सत्कृतिर्गोप्ता सच्चिदानन्दविग्रहः ॥ ९१ ॥

प्राणस्त्वं प्राणिनां प्रत्यगात्मा त्वं सर्वदेहिनाम् ।
सुज्योतिस्त्वं परञ्ज्योतिरात्मज्योतिः सनातनः ॥ ९२ ॥

ज्योतिर्लोकस्वरूपस्त्वं त्वं ज्योतिर्ज्योतिषां पतिः ।
स्वाहाकारः स्वधाकारो वषट्कारः कृपाकरः ॥ ९३ ॥

हन्तकारो निराकारो वेगकारश्च शङ्करः ।
अकारादिहकारान्त ओङ्कारो लोककारकः ॥ ९४ ॥

एकात्मा त्वमनेकात्मा चतुरात्मा चतुर्भुजः ।
चतुर्मूर्तिश्चतुर्दंष्ट्रश्चतुर्वेदमयोत्तमः ॥ ९५ ॥

लोकप्रियो लोकगुरुर्लोकेशो लोकनायकः ।
लोकसाक्षी लोकपतिर्लोकात्मा लोकलोचनः ॥ ९६ ॥

लोकाधारो बृहल्लोको लोकालोकमयो विभुः ।
लोककर्ता विश्वकर्ता कृतावर्तः कृतागमः ॥ ९७ ॥

अनादिस्त्वमनन्तस्त्वमभूतोभूतविग्रहः ।
स्तुतिः स्तुत्यः स्तवप्रीतः स्तोता नेता नियामकः ॥ ९८ ॥

त्वं गतिस्त्वं मतिर्मह्यं पिता माता गुरुः सखा ।
सुहृदश्चात्मरूपस्त्वं त्वां विना नास्ति मे गतिः ॥ ९९ ॥

नमस्ते मन्त्ररूपाय अस्त्ररूपाय ते नमः ।
बहुरूपाय रूपाय पञ्चरूपधराय च ॥ १०० ॥

भद्ररूपाय रूढाय योगरूपाय योगिने ।
समरूपाय योगाय योगपीठस्थिताय च ॥ १०१ ॥

योगगम्याय सौम्याय ध्यानगम्याय ध्यायिने ।
ध्येयगम्याय धाम्ने च धामाधिपतये नमः ॥ १०२ ॥

धराधराय धर्माय धारणाभिरताय च ।
नमो धात्रे च सन्धात्रे विधात्रे च धराय च ॥ १०३ ॥

दामोदराय दान्ताय दानवान्तकराय च ।
नमः संसारवैद्याय भेषजाय नमो नमः ॥ १०४ ॥

सीरध्वजाय शीताय वातायाप्रमिताय च ।
सारस्वताय संसारनाशनायाक्ष मालिने ॥ १०५ ॥

असिधर्मधरायैव षट्कर्मनिरताय च ।
विकर्माय सुकर्माय परकर्मविधायिने ॥ १०६ ॥

सुशर्मणे मन्मथाय नमो वर्माय वर्मिणे ।
करिचर्मवसानाय करालवदनाय च ॥ १०७ ॥

कवये पद्मगर्भाय भूतगर्भघृणानिधे ।
ब्रह्मगर्भाय गर्भाय बृहद्गर्भाय धूर्जटे ॥ १०८ ॥

नमस्ते विश्वगर्भाय श्रीगर्भाय जितारये ।
नमो हिरण्यगर्भाय हिरण्यकवचाय च ॥ १०९ ॥

हिरण्यवर्णदेहाय हिरण्याक्षविनाशिने ।
हिरण्यकशिपोर्हन्त्रे हिरण्यनयनाय च ॥ ११० ॥

हिरण्यरेतसे तुभ्यं हिरण्यवदनाय च ।
नमो हिरण्यश‍ृङ्गाय निःश‍ृङ्गाय श‍ृङ्गिणे ॥ १११ ॥

भैरवाय सुकेशाय भीषणायान्त्रिमालिने ।
चण्डाय रुण्डमालाय नमो दण्डधराय च ॥ ११२ ॥

अखण्डतत्त्वरूपाय कमण्डलुधराय च ।
नमस्ते खण्डसिंहाय सत्यसिंहाय ते नमः ॥ ११३ ॥

नमस्ते श्वेतसिंहाय पीतसिंहाय ते नमः ।
नीलसिंहाय नीलाय रक्तसिंहाय ते नमः ॥ ११४ ॥

नमो हारिद्रसिंहाय धूम्रसिंहाय ते नमः ।
मूलसिंहाय मूलाय बृहत्सिंहाय ते नमः ॥ ११५ ॥

पातालस्थितसिंहाय नमः पर्वतवासिने ।
नमो जलस्थसिंहाय अन्तरिक्षस्थिताय च ॥ ११६ ॥

कालाग्निरुद्रसिंहाय चण्डसिंहाय ते नमः ।
अनन्तसिंहसिंहाय अनन्तगतये नमः ॥ ११७ ॥

नमो विचित्रसिंहाय बहुसिंहस्वरूपिणे ।
अभयङ्करसिंहाय नरसिंहाय ते नमः ॥ ११८ ॥

नमोऽस्तु सिंहराजाय नारसिंहाय ते नमः ।
सप्ताब्धिमेखलायैव सत्यसत्यस्वरूपिणे ॥ ११९ ॥

सप्तलोकान्तरस्थाय सप्तस्वरमयाय च ।
सप्तार्चीरूपदंष्ट्राय सप्ताश्वरथरूपिणे ॥ १२० ॥

सप्तवायुस्वरूपाय सप्तच्छन्दोमयाय च ।
स्वच्छाय स्वच्छरूपाय स्वच्छन्दाय च ते नमः ॥ १२१ ॥

श्रीवत्साय सुवेधाय श्रुतये श्रुतिमूर्तये ।
शुचिश्रवाय शूराय सुप्रभाय सुधन्विने ॥ १२२ ॥

शुभ्राय सुरनाथाय सुप्रभाय शुभाय च ।
सुदर्शनाय सूक्ष्माय निरुक्ताय नमो नमः ॥ १२३ ॥

सुप्रभाय स्वभावाय भवाय विभवाय च ।
सुशाखाय विशाखाय सुमुखाय मुखाय च ॥ १२४ ॥

सुनखाय सुदंष्ट्राय सुरथाय सुधाय च ।
साङ्ख्याय सुरमुख्याय प्रख्याताय प्रभाय च ॥ १२५ ॥

नमः खट्वाङ्गहस्ताय खेटमुद्गरपाणये ।
खगेन्द्राय मृगेन्द्राय नागेन्द्राय दृढाय च ॥ १२६ ॥

नागकेयूरहाराय नागेन्द्रायाघमर्दिने ।
नदीवासाय नग्नाय नानारूपधराय च ॥ १२७ ॥

नागेश्वराय नागाय नमिताय नराय च ।
नागान्तकरथायैव नरनारायणाय च ॥ १२८ ॥

नमो मत्स्यस्वरूपाय कच्छपाय नमो नमः ।
नमो यज्ञवराहाय नरसिंहाय नमो नमः ॥ १२९ ॥

विक्रमाक्रान्तलोकाय वामनाय महौजसे ।
नमो भार्गवरामाय रावणान्तकराय च ॥ १३० ॥

नमस्ते बलरामाय कंसप्रध्वंसकारिणे ।
बुद्धाय बुद्धरूपाय तीक्ष्णरूपाय कल्किने ॥ १३१ ॥

आत्रेयायाग्निनेत्राय कपिलाय द्विजाय च ।
क्षेत्राय पशुपालाय पशुवक्त्राय ते नमः ॥ १३२ ॥

गृहस्थाय वनस्थाय यतये ब्रह्मचारिणे ।
स्वर्गापवर्गदात्रे च तद्भोक्त्रे च मुमुक्षवे ॥ १३३ ॥

शालग्रामनिवासाय क्षीराब्धिशयनाय च ।
श्रीशैलाद्रिनिवासाय शिलावासाय ते नमः ॥ १३४ ॥

योगिहृत्पद्मवासाय महाहासाय ते नमः ।
गुहावासाय गुह्याय गुप्ताय गुरवे नमः ॥ १३५ ॥

नमो मूलाधिवासाय नीलवस्त्रधराय च ।
पीतवस्त्राय शस्त्राय रक्तवस्त्रधराय च ॥ १३६ ॥

रक्तमालाविभूषाय रक्तगन्धानुलेपिने ।
धुरन्धराय धूर्ताय दुर्धराय धराय च ॥ १३७ ॥

दुर्मदाय दुरन्ताय दुर्धराय नमो नमः ।
दुर्निरीक्ष्याय निष्ठाय दुर्दर्शाय द्रुमाय च ॥ १३८ ॥

दुर्भेदाय दुराशाय दुर्लभाय नमो नमः ।
दृप्ताय दृप्तवक्त्राय अदृप्तनयनाय च ॥ १३९ ॥

उन्मत्ताय प्रमत्ताय नमो दैत्यारये नमः ।
रसज्ञाय रसेशाय अरक्तरसनाय च ॥ १४० ॥

पथ्याय परितोषाय रथ्याय रसिकाय च ।
ऊर्ध्वकेशोर्ध्वरूपाय नमस्ते चोर्ध्वरेतसे ॥ १४१ ॥

ऊर्ध्वसिंहाय सिंहाय नमस्ते चोर्ध्वबाहवे ।
परप्रध्वंसकायैव शङ्खचक्रधराय च ॥ १४२ ॥

गदापद्मधरायैव पञ्चबाणधराय च ।
कामेश्वराय कामाय कामपालाय कामिने ॥ १४३ ॥

नमः कामविहाराय कामरूपधराय च ।
सोमसूर्याग्निनेत्राय सोमपाय नमो नमः ॥ १४४ ॥

नमः सोमाय वामाय वामदेवाय ते नमः ।
सामस्वनाय सौम्याय भक्तिगम्याय वै नमः ॥ १४५ ॥

कूष्माण्डगणनाथाय सर्वश्रेयस्कराय च ।
भीष्माय भीषदायैव भीमविक्रमणाय च ॥ १४६ ॥

मृगग्रीवाय जीवाय जितायाजितकारिणे ।
जटिने जामदग्नाय नमस्ते जातवेदसे ॥ १४७ ॥

जपाकुसुमवर्णाय जप्याय जपिताय च ।
जरायुजायाण्डजाय स्वेदजायोद्भिजाय च ॥ १४८ ॥

जनार्दनाय रामाय जाह्नवीजनकाय च ।
जराजन्मादिदूराय प्रद्युम्नाय प्रमोदिने ॥ १४९ ॥

जिह्वारौद्राय रुद्राय वीरभद्राय ते नमः ।
चिद्रूपाय समुद्राय कद्रुद्राय प्रचेतसे ॥ १५० ॥

इन्द्रियायेन्द्रियज्ञाय नमोऽस्त्विन्द्रानुजाय च ।
अतीन्द्रियाय साराय इन्दिरापतये नमः ॥ १५१ ॥

ईशानाय च ईड्याय ईशिताय इनाय च ।
व्योमात्मने च व्योम्ने च नमस्ते व्योमकेशिने ॥ १५२ ॥

व्योमाधाराय च व्योमवक्त्रायासुरघातिने ।
नमस्ते व्योमदंष्ट्राय व्योमवासाय ते नमः ॥ १५३ ॥

सुकुमाराय रामाय शिशुचाराय ते नमः ।
विश्वाय विश्वरूपाय नमो विश्वात्मकाय च ॥ १५४ ॥

ज्ञानात्मकाय ज्ञानाय विश्वेशाय परात्मने ।
एकात्मने नमस्तुभ्यं नमस्ते द्वादशात्मने ॥ १५५ ॥

चतुर्विंशतिरूपाय पञ्चविंशतिमूर्तये ।
षड्विंशकात्मने नित्यं सप्तविंशतिकात्मने ॥ १५६ ॥

धर्मार्थकाममोक्षाय विरक्ताय नमो नमः ।
भावशुद्धाय सिद्धाय साध्याय शरभाय च ॥ १५७ ॥

प्रबोधाय सुबोधाय नमो बुधिप्रियाय च ।
स्निग्धाय च विदग्धाय मुग्धाय मुनये नमः ॥ १५८ ॥

प्रियंवदाय श्रव्याय स्रुक्स्रुवाय श्रिताय च ।
गृहेशाय महेशाय ब्रह्मेशाय नमो नमः ॥ १५९ ॥

श्रीधराय सुतीर्थाय हयग्रीवाय ते नमः ।
उग्राय उग्रवेगाय उग्रकर्मरताय च ॥ १६० ॥

उग्रनेत्राय व्यग्राय समग्रगुणशालिने ।
बालग्रहविनाशाय पिशाचग्रहघातिने ॥ १६१ ॥

दुष्टग्रहनिहन्त्रे च निग्रहानुग्रहाय च ।
वृषध्वजाय वृष्ण्याय वृषाय वृषभाय च ॥ १६२ ॥

उग्रश्रवाय शान्ताय नमः श्रुतिधराय च ।
नमस्ते देवदेवेश नमस्ते मधुसूदन ॥ १६३ ॥

नमस्ते पुण्डरीकाक्ष नमस्ते दुरितक्षय ।
नमस्ते करुणासिन्धो नमस्ते समितिञ्जय ॥ १६४ ॥

नमस्ते नरसिंहाय नमस्ते गरुडध्वज ।
यज्ञनेत्र नमस्तेऽस्तु कालध्वज जयध्वज ॥ १६५ ॥

अग्निनेत्र नमस्तेऽस्तु नमस्ते ह्यमरप्रिय ।
महानेत्र नमस्तेऽस्तु नमस्ते भक्तवत्सल ॥ १६६ ॥

धर्मनेत्र नमस्तेऽस्तु नमस्ते करुणाकर ।
पुण्यनेत्र नमस्तेऽस्तु नमस्तेऽभीष्टदायक ॥ १६७ ॥

नमो नमस्ते दयासिंहरूप नमो नमस्ते नरसिंहरूप ।
नमो नमस्ते रणसिंहरूप नमो नमस्ते नरसिंहरूप ॥ १६८ ॥

उद्धृत्य गर्वितं दैत्यं निहत्याजौ सुरद्विषम् ।
देवकार्यं महत्कृत्वा गर्जसे स्वात्मतेजसा ॥ १६९ ॥

अतिरुद्रमिदं रूपं दुस्सहं दुरतिक्रमम् ।
दृष्ट्वा तु शङ्किताः सर्वादेवतास्त्वामुपागताः ॥ १७० ॥

एतान्पश्य महेशानं व्रह्माणं मां शचीपतिम् ।
दिक्पालान् द्वादशादित्यान् रुद्रानुरगराक्षसान् ॥ १७१ ॥

सर्वान् ऋषिगणान्सप्तमातृगौरीं सरस्वतीम् ।
लक्ष्मीं नदीश्च तीर्थानि रतिं भूतगाणान्यपि ॥ १७२ ॥

प्रसीद त्वं महासिंह उग्रभावमिमं त्यज ।
प्रकृतिस्थो भव त्वं हि शान्तिभावं च धारय ॥ १७३ ॥

इत्युक्त्वा दण्डवद्भूमौ पपात स पितामहः ।
प्रसीद त्वं प्रसीद त्वं प्रसीदेति पुनः पुनः ॥ १७४ ॥

॥ मार्कण्डेय उवाच ॥

दृष्ट्वा तु देवताः सर्वाः श्रुत्वा तां ब्रह्मणो गिरम् ।
स्तोत्रेणापि च संहृष्टः सौम्यभावमधारयत् ॥ १७५ ॥

अब्रवीन्नारसिंहस्तु वीक्ष्य सर्वान्सुरोत्तमान् ।
संत्रस्तान् भयसंविग्नान् शरणं समुपागतान् ॥ १७६ ॥

॥ श्रीनृसिंह उवाच ॥

भो भो देववराः सर्वे पितामहपुरोगमाः ।
श‍ृणुध्वं मम वाक्यं च भवंतु विगतज्वराः ॥ १७७ ॥

यद्धितं भवतां नूनं तत्करिष्यामि सांप्रतम् ।
एवं नामसहस्रं मे त्रिसन्ध्यं यः पठेत् शुचिः ॥ १७८ ॥

श‍ृणोति वा श्रावयति पूजां ते भक्तिसंयुतः ।
सर्वान्कामानवाप्नोति जीवेच्च शरदां शतम् ॥ १७९ ॥

यो नामभिर्नृसिंहाद्यैरर्चयेत्क्रमशो मम ।
सर्वतीर्थेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम ॥ १८० ॥।

सर्व पूजासु यत्प्रोक्तं तत्सर्वं लभते भृशम् ।
जातिस्मरत्वं लभते ब्रह्मज्ञानं सनातनम् ॥ १८१ ॥

ये भी पढ़ें:  Shri Gurunath Guhyanam Sahasranama (श्री गुरुनाथ गुह्यनाम सहस्रनाम): पाठ कैसे करें? जानें साधना विधि, नियम, लाभ, महत्व और सावधानियां

सर्वपापविनिर्मुक्तः तद्विष्णोः परमं पदम् ।
मन्नामकवचं बध्वा विचरेद्विगतज्वरः ॥ १८२ ॥

भूतभेतालकूष्माण्ड पिशाचव्रह्मराक्षसाः ।
शाकिनीडाकिनीज्येष्ठा नीली बालग्रहादिकाः ॥ १८३ ॥

दुष्टग्रहाश्च नश्यन्ति यक्षराक्षसपन्नगाः ।
ये च सन्ध्याग्रहाः सर्वे चाण्डालग्रहसंज्ञिकाः ॥ १८४ ॥

निशाचरग्रहाः सर्वे प्रणश्यन्ति च दूरतः ।
कुक्षिरोगं च हृद्रोगं शूलापस्मारमेव च ॥ १८५ ॥

ऐकाहिकं द्व्याहिकं चातुर्धिकमधज्वरम् ।
आधये व्याधयः सर्वे रोगा रोगाधिदेवताः ॥ १८६ ॥

शीघ्रं नश्यन्ति ते सर्वे नृसिंहस्मरणात्सुराः ।
राजानो दासतां यान्ति शत्रवो यान्ति मित्रताम् ॥ १८७ ॥

जलानि स्थलतां यान्ति वह्नयो यान्ति शीतताम् ।
विषा अप्यमृता यान्ति नृसिंहस्मरणात्सुराः ॥ १८८ ॥

राज्यकामो लभेद्राज्यं धनकामो लभेद्धनम् ।
विद्याकामो लभेद्विद्यां बद्धो मुच्येत बन्धनात् ॥ १८९ ॥

व्यालव्याघ्रभयं नास्ति चोरसर्पादिकं तथा ।
अनुकूला भवेद्भार्या लोकैश्च प्रतिपूज्यते ॥ १९० ॥

सुपुत्रं धनधान्यं च भवन्ति विगतज्वराः ।
एतत्सर्वं समाप्नोति नृसिंहस्य प्रसादतः ॥ १९१ ॥

जलसन्तरणे चैव पर्वतारण्यमेव च ।
वनेऽपि विचिरन्मर्त्यो दुर्गमे विषमे पथि ॥ १९२ ॥

कलिप्रवेशने चापि नारसिंहं न विस्मरेत् ।
ब्रह्मघ्नश्च पशुघ्नश्च भ्रूणहा गुरुतल्पगः ॥ १९३ ॥

मुच्यते सर्वपापेभ्यः कृतघ्न स्त्रीविघातकः ।
वेदानां दूषकश्चापि मातापितृ विनिन्दकः ॥ १९४ ॥

असत्यस्तु तेथा यज्ञ निन्दको लोकनिन्दकः ।
स्मृत्वा सकृन्नृसिंह तु मुच्यते सर्वकिल्बषैः ॥ १९५ ॥

बहुनात्र किमुक्तेन स्मृत्वा मां शुद्धमानसः ।
यत्र यत्र चरेन्मर्त्यो नृसिंहस्तत्र रक्षति ॥ १९६ ॥

गच्छन् तिष्ठन् श्वपन्भुञ्जन् जाग्रन्नपि हसन्नपि ।
नृसिंहेति नृसिंहेति नृसिंहेति सदा स्मरन् ॥ १९७ ॥

पुमान्नलिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति ।
नारी सुभगतामेति सौभाग्यं च स्वरूपताम् ॥ १९८ ॥

भर्तुः प्रियत्वं लभते न वैधव्यं च विन्दति ।
न सपत्नीं च जन्मान्ते सम्यक् ज्ञानी भवेद्विजः ॥ १९९ ॥

भूमिप्रदक्षिणान्मर्त्यो यत्फलं लभते चिरात् ।
तत्फलं लभते नारसिंहमूर्तिप्रदक्षिणात् ॥ २०० ॥

॥ मार्कण्डेय उवाच ॥

इत्युक्त्वा देवदेवेशो लक्ष्मीमालिङ्ग्ग्य लीलया ।
प्रह्लादस्याभिषेकं तु ब्रह्मणे चोपदिष्टवान् ॥ २०१ ॥

श्रीशैलस्य प्रदासे तु लोकानां च हिताय वै ।
स्वरूपं स्थापयामास प्रकृतिस्थोऽभवत्तदा ॥ २०२ ॥

ब्रह्मापि दैत्यराजानं प्रह्लादमभ्यषेचयत् ।
दैवतैः सह सुप्रीतो ह्यात्मलोलं ययौ स्वयम् ॥ २०३ ॥

हिरण्यकशिपोर्भीत्या प्रपलाय शचीपतिः ।
स्वर्गराज्यपरिभ्रष्टो युगानामेकविंशतिः ॥ २०४ ॥

नृसिंहेन हते दैत्ये स्वर्गलोकमवाप सः ।
दिक्पालश्च सुसंप्राप्तः स्वस्वस्थानमनुत्तमम् ॥ २०५ ॥

धर्मे मतिः समस्तानां प्रजानामभवत्तदा ।
एवं नामसहस्रं मे ब्रह्मणा निर्मितं पुरा ॥ २०६ ॥

पुत्रानध्यापयामास सनकादीन्महामतिः ।
ऊचुस्ते च ततः सर्वलोकानां हितकाम्यया ॥ २०७ ॥

देवता ऋषयः सिद्धा यक्षविद्याधरोरगाः ।
गन्धर्वाश्च मनुष्याश्च इहामुत्रफलैषिणः ॥ २०८ ॥

यस्य स्तोत्रस्य पाठा द्विशुद्ध मनसोभवन् ।
सनत्कुमारः सम्प्राप्तौ भारद्वाजा महामतिः ॥ २०९ ॥

तस्मादाङ्गिरसः प्राप्तस्तस्मात्प्राप्तो महाक्रतुः ।
जैगीषव्याय सप्राह सोऽब्रवीच्छ्यवनाय च ॥ २१० ॥

तस्मा उवाच शाण्डिल्यो गर्गाय प्राह वै मुनिः ।
क्रतुञ्जयाय स प्राह जतुकर्ण्याय संयमी ॥ २११ ॥

विष्णुवृद्धाय सोऽप्याह सोऽपि बोधायनाय च ।
क्रमात्स विष्णवे प्राह स प्राहोद्धामकुक्षये ॥ २१२ ॥

सिंह तेजाश्च तस्माच्च श्रीप्रियाय ददौ च नः ।
उपदिष्टोस्मि तेनाहमिदं नामसहस्रकम् ॥ २१३ ॥

तत्प्रसादादमृत्युर्मे यस्मात्कस्माद्भयं न हि ।
मया च कथितं नारसिंहस्तोत्रमिदं तव ॥ २१४ ॥

त्वं हि नित्यं शुचिर्भूत्वा तमाराधय शाश्वतम् ।
सर्वभूताश्रयं देवं नृसिंहं भक्तवत्सलम् ॥ २१५ ॥

पूजयित्वा स्तवं जप्त्वा हुत्वा निश्चलमानसः ।
प्राप्यसे महतीं सिद्धिं सर्वान्कामान्वरोत्तमान् ॥ २१६ ॥

अयमेव परोधर्मस्त्विदमेव परं तपः ।
इदमेव परं ज्ञानमिदमेव महद्व्रतम् ॥ २१७ ॥

अयमेव सदाचारस्त्वयमेव सदा मखः ।
इदमेव त्रयो वेदाः सच्छास्त्राण्यागमानि च ॥ २१८ ॥

नृसिंहमन्त्रादन्यच्च वैदिकं तु न विद्यते ।
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ॥ २१९ ॥

कथितं ते नृसिंहस्य चरितं पापनाशनम् ।
सर्वमन्त्रमयं तापत्रयोपशमनं परम् ॥ २२० ॥

सर्वार्थसाधनं दिव्यं किं भूयः श्रोतुमिच्छसि ॥ २२१ ॥

॥ इति श्रीनृसिंहपुराणे नृसिंहप्रादुर्भावे सर्वार्थ साधनं दिव्यं नरसिम्हा सहस्रनाम स्तोत्रं सम्पूर्ण ॥

इस अत्यंत विस्तृत, दार्शनिक और ज्ञानवर्धक लेख में हम गहराई से जानेंगे कि श्री नरसिंह सहस्रनाम का तात्विक और आध्यात्मिक महत्व क्या है, इसके नित्य पाठ से जीवन में कौन से अकल्पनीय चमत्कार होते हैं, और इसे सिद्ध करने की प्रामाणिक वैदिक साधना विधि, नियम व सावधानियां क्या हैं।

1. श्री नरसिंह सहस्रनाम का दार्शनिक और आध्यात्मिक महत्व

इस महान सहस्रनाम की प्रचंड ऊर्जा और इसके पीछे छिपे रहस्यमयी विज्ञान को समझने के लिए हमें भगवान नरसिंह के स्वरूप के पीछे छिपे वेदांत दर्शन और शब्द-ब्रह्म के गूढ़ रहस्यों को गहराई से समझना होगा।

खंभे से प्राकट्य (Manifestation from the Pillar) का तात्विक अर्थ

हिरण्यकशिपु ने अत्यधिक अहंकार में आकर बालक प्रह्लाद से पूछा था, “कहाँ है तुम्हारा जगदीश? क्या वह इस सूनी राजसभा के जड़ खंभे में भी है?” प्रह्लाद ने पूर्ण विश्वास से कहा, “हाँ पिताजी, वे इस खंभे में भी हैं और कण-कण में हैं।” भगवान ने प्रह्लाद के इसी विश्वास को सत्य करने के लिए खंभे से अवतार लिया। दार्शनिक दृष्टि से, ‘खंभा’ हमारे भीतर की जड़ता, अज्ञान और कठोर अहंकार का प्रतीक है। जब साधक नरसिंह सहस्रनाम का गान करता है, तो भगवान उसके भीतर बैठे अज्ञान के उस कठोर खंभे को चीरकर ज्ञान के साक्षात प्रकाश के रूप में प्रकट होते हैं। यह दर्शाता है कि ईश्वर अदृश्य रूप में सर्वत्र व्याप्त हैं, बस उन्हें पुकारने के लिए प्रह्लाद जैसी निश्छल भक्ति और अटूट विश्वास की आवश्यकता है।

‘सिंह-नाद’ (The Cosmic Roar) और चक्रों का शोधन

जब भगवान नरसिंह प्रकट हुए, तो उनके भयंकर गर्जन (सिंह-नाद) से तीनों लोक कांप उठे थे। मंत्र शास्त्र के अनुसार, ध्वनि तरंगों (Sound Vibrations) में ब्रह्मांड को बदलने की शक्ति होती है। श्री नरसिंह सहस्रनाम के 1000 नामों का जब साधक सस्वर पाठ करता है, तो उसके भीतर एक ‘अग्नि-तत्व’ और ‘सिंह-नाद’ जैसी सूक्ष्म ध्वनि उत्पन्न होती है। यह ध्वनि तरंग सीधे मानव शरीर के ‘मणिपूर चक्र’ (Navel Chakra) और ‘आज्ञा चक्र’ (Third Eye Chakra) पर प्रहार करती है। इससे वर्षों से सोई हुई आत्मिक शक्तियां जाग्रत होने लगती हैं, इच्छाशक्ति (Willpower) वज्र के समान मजबूत हो जाती है, और साधक का आभामंडल (Aura) पूरी तरह शुद्ध होकर शक्तिशाली बन जाता है।

उग्रता और सौम्यता का अनूठा संगम

भगवान नरसिंह के दो स्वरूप शास्त्रों में मुख्य रूप से पूजे जाते हैं— ‘उग्र नरसिंह’ (जो दुष्टों का संहार करते हैं) और ‘लक्ष्मी नरसिंह’ (जो शांत होकर भक्तों को आशीर्वाद देते हैं)। नरसिंह सहस्रनाम का पाठ करने का सबसे बड़ा दार्शनिक लाभ यह है कि यह साधक को जीवन की विपरीत परिस्थितियों में उग्रता (साहस और संहारक शक्ति) प्रदान करता है, परंतु भीतर से उसे शांत, करुणामयी और भक्ति से सराबोर (लक्ष्मी स्वरूप) बनाए रखता है।

2. श्री नरसिंह सहस्रनाम पाठ के अकल्पनीय और चमत्कारिक लाभ (Benefits)

भगवान नरसिंह साक्षात न्याय के अधिपति, संकटमोचन और अभय के प्रदाता हैं। जो साधक पूर्ण निष्ठा, सात्विकता, पवित्रता और अटूट विश्वास के साथ प्रतिदिन इस सहस्रनाम का सस्वर पाठ या मानसिक श्रवण करता है, उसे जीवन के समरांगण में निम्नलिखित अमोघ और चमत्कारी लाभ प्राप्त होते हैं:

शत्रु-नाश, आत्मरक्षा और अदृश्य बाधा निवारण (Ultimate Protection & Victory)

  • गुप्त और दृश्य शत्रुओं का समूल दमन: यदि आपके कार्यक्षेत्र में, व्यापार में, या सामाजिक जीवन में कुछ लोग अकारण ही आपसे ईर्ष्या रखते हैं, आपकी उन्नति को रोकना चाहते हैं, या आपको मिटाने का षड्यंत्र रच रहे हैं, तो यह सहस्रनाम उनके लिए काल के समान सिद्ध होता है। यह स्तोत्र शत्रुओं की बुद्धि का स्तंभन कर देता है, जिससे उनके सभी कुप्रयास स्वतः ही निष्प्रभावी हो जाते हैं।

  • तीव्र तांत्रिक अभिचार कर्मों (Black Magic) से तत्काल मुक्ति: यदि आप पर या आपके परिवार पर किसी विरोधी ने नकारात्मक शक्तियों का प्रयोग किया है, काले जादू का सहारा लिया है, या कोई बुरी नज़र (Evil Eye) लगी है, तो नरसिंह सहस्रनाम की प्रचंड अग्नि उस तांत्रिक प्रयोग को उसी क्षण जलाकर राख कर देती है। सबसे बड़ा चमत्कार यह है कि वह नकारात्मक ऊर्जा कई गुना तीव्र होकर भेजने वाले पर ही वापस पलट जाती है।

  • कोर्ट-कचहरी और झूठे मुकदमों (Legal Disputes) में अजेय विजय: यदि आप सत्य के मार्ग पर हैं और विरोधियों ने आपको किसी कानूनी विवाद या झूठे केस में फंसा दिया है, तो भगवान नरसिंह की यह स्तुति परिस्थितियों को चमत्कारिक रूप से आपके पक्ष में कर देती है और न्याय की जीत होती है।

आर्थिक कष्ट, ऋण-मुक्ति और समृद्धि (Wealth & Debt Relief)

  • भयंकर कर्जों के जाल से मुक्ति: भगवान नरसिंह का एक स्वरूप ‘ऋणमोचन नरसिंह’ भी है। जो व्यक्ति भारी कर्जों (Debts) के बोझ तले दबा हुआ है और बाहर निकलने का कोई मार्ग नहीं सूझ रहा, उसे इस सहस्रनाम का आश्रय लेना चाहिए। इसके प्रभाव से आय के नए और अप्रत्याशित स्रोत स्वतः खुलने लगते हैं।

  • स्थिर लक्ष्मी और व्यापारिक मंदी का नाश: व्यापार में आ रहे लगातार घाटे और दरिद्रता को भस्म करने के लिए यह स्तोत्र अचूक माना गया है। यह घर में अन्न और धन के भंडारों को स्थायी रूप से भर देता है।

स्वास्थ्य, दीर्घायु और मनोवैज्ञानिक लाभ (Health & Psychological Well-being)

  • अकाल मृत्यु और भयंकर दुर्घटनाओं से रक्षा: भगवान नरसिंह काल के भी काल हैं। जो साधक इस सहस्रनाम को अपने जीवन का हिस्सा बना लेता है, उसकी कभी भी ‘अकाल मृत्यु’ (Premature death) नहीं हो सकती। यह पाठ यात्रा के दौरान होने वाले अज्ञात हादसों से साधक को अभेद्य सुरक्षा प्रदान करता है।

  • असाध्य और रहस्यमयी रोगों से मुक्ति: कैंसर, मानसिक विकार (Depression/Anxiety), या ऐसी बीमारियां जिन्हें चिकित्सा विज्ञान भी समझ न पा रहा हो, उनमें इस सहस्रनाम का पाठ साक्षात संजीवनी का कार्य करता है।

  • परम निर्भयता (Absolute Fearlessness) का संचार: जिन लोगों को अकारण घबराहट (Panic attacks) होती है, अकेले रहने से डर लगता है, या भविष्य की असुरक्षा सताती है, यह स्तुति उनके मन से भय के बीज को निकालकर सिंह के समान अदम्य साहस भर देती है।

3. श्री नरसिंह सहस्रनाम की प्रामाणिक साधना और पाठ विधि (Sadhana Vidhi)

भगवान नरसिंह की उपासना जितनी तीव्र और त्वरित है, उतनी ही इसके नियमों में प्रामाणिकता की आवश्यकता होती है। गृहस्थ साधकों के लिए शास्त्रों में ‘सात्विक मार्ग’ (लक्ष्मी नरसिंह विधि) बताई गई है, जो पूर्णतः सुरक्षित, अत्यंत मंगलकारी और शीघ्र फलदायी है। इस विधि का पालन अवश्य करना चाहिए:

उत्तम दिन, तिथि और मुहूर्त

  • दिन: भगवान नरसिंह की आराधना के लिए मंगलवार (Tuesday – साहस और ऋण मुक्ति हेतु) और शनिवार (Saturday – शनि दोष शांति हेतु) का दिन सबसे श्रेष्ठ और सर्वाधिक जाग्रत माना जाता है। गुरुवार को भी यह पाठ किया जा सकता है।

  • विशेष तिथियां: नरसिंह जयंती (वैशाख शुक्ल चतुर्दशी), स्वाति नक्षत्र (जो भगवान नरसिंह का जन्म नक्षत्र है), प्रत्येक मास की शुक्ल पक्ष की चतुर्दशी, और नवरात्रि के दिन इस सहस्रनाम को सिद्ध करने के लिए सर्वोत्तम माने गए हैं।

  • समय: चूँकि भगवान नरसिंह का प्राकट्य संध्याकाल (प्रदोष काल) में हुआ था, इसलिए पाठ का सबसे उत्तम समय संध्याकाल (सूर्यास्त के समय) होता है। यदि संध्या समय संभव न हो, तो सुबह ब्रह्म मुहूर्त में भी इसका पाठ किया जा सकता है।

दिशा, आसन और वस्त्र का विधान

  • दिशा: पाठ करते समय अपना मुख सदैव उत्तर (North – कुबेर व समृद्धि की दिशा) या पूर्व (East – ज्ञान व प्रकाश की दिशा) की ओर रखें। संकट काल में शत्रुओं के नाश के लिए पश्चिम (West) दिशा की ओर मुख किया जा सकता है।

  • आसन: बैठने के लिए पीले (Yellow) या लाल (Red) रंग के ऊनी आसन का प्रयोग करें। कुशा का आसन भी अत्यंत श्रेष्ठ है।

  • वस्त्र: स्नान करके शरीर और मन को पवित्र करें। पूजा के समय पीले या लाल रंग के स्वच्छ वस्त्र धारण करना साधना की ऊर्जा को कई गुना बढ़ा देता है (पीला रंग भगवान विष्णु को अत्यधिक प्रिय है)।

पीठ की स्थापना और पूजन सामग्री (Setup)

विधान / सामग्री शास्त्रीय नियम और विवरण
प्रतिमा / चित्र / यंत्र एक स्वच्छ लकड़ी की चौकी पर पीला कपड़ा बिछाएं। उस पर माता लक्ष्मी के साथ विराजमान भगवान नरसिंह (लक्ष्मी नरसिंह) का सौम्य चित्र या पीतल की मूर्ति स्थापित करें। गृहस्थों को अत्यधिक उग्र रूप वाले चित्र घर में लगाने से बचना चाहिए।
दीपक भगवान के सम्मुख गाय के शुद्ध घी का एक अखंड दीपक प्रज्वलित करें। चंदन, मोगरा या केसर की सुगंधित धूप जलाएं।
तिलक और शृंगार भगवान नरसिंह को पीला चंदन, अष्टगंध या केसर का तिलक लगाएं। उन्हें लाल या पीले पुष्प अर्पित करें। स्वयं के मस्तक पर भी पीला चंदन धारण करें।
पुष्प और तुलसी दल उन्हें लाल या पीले पुष्प (गेंदा, चंपा, कमल) अत्यंत प्रिय हैं। सबसे महत्वपूर्ण: भगवान नरसिंह विष्णु स्वरूप हैं, अतः उन्हें तुलसी दल (Tulsi leaves) अवश्य अर्पित करें, इसके बिना वे कोई पूजा स्वीकार नहीं करते।
ये भी पढ़ें:  Shrimad Dattatreya Sahasranaam (श्रीमद दत्तात्रेय सहस्रनामावली): पाठ कैसे करें? जानें साधना विधि, नियम, लाभ, महत्व और सावधानियां

दृढ़ संकल्प (Sankalpa)

पाठ आरंभ करने से पूर्व दाएँ हाथ में थोड़ा सा जल, अक्षत (साबुत चावल), और एक पीला पुष्प लें। आँखें बंद करके अपना नाम, गोत्र, स्थान और पाठ का स्पष्ट उद्देश्य बोलें (उदाहरण: “हे शरणागतवत्सल भगवान नरसिंह, मैं अपने जीवन से समस्त संकटों, भयंकर शत्रुओं, कर्जों और व्याधियों के समूल नाश तथा आपकी शुद्ध भक्ति के लिए श्री नरसिंह सहस्रनाम का 21/41 दिन तक नित्य पाठ करने का संकल्प लेता/लेती हूँ”), और फिर जल को भगवान के चरणों के सम्मुख ज़मीन पर छोड़ दें।

स्तोत्र का पाठ (Chanting Method & Archana)

  • सर्वप्रथम विघ्नहर्ता भगवान श्री गणेश, माता लक्ष्मी और अपने गुरुदेव का मानसिक स्मरण कर उन्हें साष्टांग प्रणाम करें।

  • भगवान नरसिंह के परम जाग्रत बीज मंत्र “ॐ क्ष्रौं नरसिंहाय नमः” की कम से कम एक माला (108 बार) तुलसी या रुद्राक्ष की माला पर अवश्य जपें ताकि वातावरण सिद्ध हो सके।

  • अब पूर्ण एकाग्रता, रीढ़ की हड्डी को सीधा रखकर और भीतर एक निडर योद्धा के समान साहस का अनुभव करते हुए ‘श्री नरसिंह सहस्रनाम स्तोत्रम्’ का सस्वर पाठ आरंभ करें। प्रत्येक नाम के अंत में ‘नमः’ (जैसे ॐ प्रह्लादवरदाय नमः) लगाकर स्पष्ट उच्चारण करें।

  • सहस्रार्चन विधि (विशेष उपाय): यदि जीवन में अत्यंत भयंकर संकट हो, तो सहस्रनाम के प्रत्येक नाम के उच्चारण के साथ माता लक्ष्मी और भगवान नरसिंह के सम्मुख एक तुलसी पत्र, पीला फूल या कुमकुम से रंगे हुए चावल अर्पित करें। यह 1000 नामों के साथ 1000 बार किया जाता है। इसे ‘नरसिंह सहस्रार्चन’ कहते हैं, जो किसी भी असम्भव कार्य को सम्भव बनाने की क्षमता रखता है।

क्षमा प्रार्थना और सात्विक भोग (Naivedya)

पाठ पूर्ण होने के बाद भगवान को माखन-मिश्री, गाय के दूध की खीर (केसर युक्त), पीले मिष्ठान्न, या ऋतुफल (विशेषकर आम या केला) का सात्विक भोग लगाएं। अंत में कपूर जलाकर भगवान की आरती गाएं। पूजा के अंत में हाथ जोड़कर पूजा-पाठ में हुई किसी भी अशुद्धि, अज्ञानता या उच्चारण की भूल के लिए क्षमा प्रार्थना अवश्य करें।

4. साधना के अत्यंत संवेदनशील और अनिवार्य नियम (Strict Rules for Sadhana)

भगवान नरसिंह परम उग्र होने के साथ-साथ अत्यंत संवेदनशील देव हैं। वे भाव के भूखे हैं, परंतु उनकी साधना में आचरण की शुद्धता और अनुशासन का होना अनिवार्य है। इस साधना का पूर्ण फल प्राप्त करने के लिए इन नियमों का कड़ाई से पालन करना अनिवार्य है:

  1. पूर्ण सात्विक जीवन और आहार (Strict Vegetarianism): यह नरसिंह साधना का सबसे कड़ा और पहला नियम है। अनुष्ठान की अवधि (21 या 41 दिन) के दौरान घर में और अपने आहार में मांस, मदिरा, अंडे, लहसुन, और प्याज का पूर्णतः त्याग होना चाहिए। तामसिक भोजन शरीर और बुद्धि की ऊर्जा को विकृत कर देता है, जिससे उग्र साधना की ऊर्जा को संभालना कठिन हो जाता है। किसी भी प्रकार के व्यसन (नशे) से सर्वथा दूर रहें।

  2. क्रोध और अहंकार का पूर्ण परित्याग: आप उस शक्ति की आराधना कर रहे हैं जिसने भयंकर अहंकारी हिरण्यकशिपु का वध किया था। यदि आपके भीतर साधना के दिनों में अहंकार आ गया, या आप बात-बात पर अपने परिवार जनों या कर्मचारियों पर चीखने-चिल्लाने लगे, तो साधना का फल शून्य हो जाएगा। सदैव शांत, विनम्र और गंभीर बने रहें।

  3. कठोर ब्रह्मचर्य का पालन (Celibacy): जो भी साधक इस सहस्रनाम का विशेष अनुष्ठान कर रहा हो, उसे मन, वचन और कर्म से ब्रह्मचर्य का कठोर पालन करना चाहिए। अपनी ऊर्जा को सुरक्षित रखना और उसे आध्यात्मिक रूप से ऊपर उठाना ही इस मंत्र शक्ति को जाग्रत करने का एकमात्र मार्ग है।

  4. कमजोरों और जीव-जंतुओं पर दया: भगवान नरसिंह जीव और मनुष्य का सम्मिलित रूप हैं, अतः किसी भी बेजुबान जानवर (विशेषकर गाय और कुत्तों) को न सताएं। किसी गरीब, असहाय या निर्दोष व्यक्ति को अपने पद या धन के बल पर परेशान न करें। जो निर्दोषों की रक्षा करता है, भगवान नरसिंह उसकी रक्षा करते हैं।

  5. निरंतरता और समय का पालन: यदि आपने संकल्प लिया है कि आप नित्य शाम को ६ बजे पाठ करेंगे, तो प्रतिदिन उसी समय पर पाठ करने का प्रयास करें। साधना में निरंतरता (Consistency) ही सफलता की कुंजी है।

5. उपासना में ध्यान रखने योग्य विशेष सावधानियां (Precautions)

भगवान नरसिंह की पूजा और सहस्रनाम के पाठ में कुछ विशेष सावधानियां बरतनी आवश्यक हैं ताकि किसी भी प्रकार की मानसिक या आत्मिक क्षति से बचा जा सके:

  • प्रतिशोध या अहित की भावना का पूर्ण त्याग (No Revenge Motive): यह सबसे महत्वपूर्ण चेतावनी है। यह सहस्रनाम आपकी आत्मरक्षा (Self-defense), संकट मुक्ति और आध्यात्मिक उन्नति के लिए है। किसी निर्दोष व्यक्ति का अकारण अहित करने, किसी से अपना व्यक्तिगत बदला लेने, या अपने शत्रुओं को पूरी तरह बर्बाद करने की दुर्भावना से इसका पाठ भूलकर भी न करें। भगवान न्याय के देवता हैं; यदि आपकी मंशा गलत हुई, तो यह ब्रह्मास्त्र आपके ऊपर ही उलट सकता है। भगवान से केवल अपनी रक्षा की प्रार्थना करें, न्याय वे स्वयं कर देंगे।

  • अत्यंत उग्र चित्रों से बचें: गृहस्थ साधकों को अपने घर के पूजा कक्ष में भगवान नरसिंह का ऐसा चित्र कभी नहीं लगाना चाहिए जिसमें वे हिरण्यकशिपु की छाती चीर रहे हों, चारों ओर रक्त बिखरा हो और उनके चेहरे पर भयंकर क्रोध हो। घर में सदैव ‘लक्ष्मी नरसिंह’ या ‘प्रह्लाद अनुग्रह नरसिंह’ का वह सौम्य चित्र लगाएं जिसमें माता लक्ष्मी उनकी जाँघ पर बैठी हों और भगवान शांत व आशीर्वाद देती हुई मुद्रा में हों।

  • शारीरिक अपवित्रता का ध्यान: बिना स्नान किए, गंदे वस्त्र पहनकर, जूठे मुंह, या अपवित्र अवस्था (सूतक, पातक) में सहस्रनाम की पुस्तक या मूर्ति का स्पर्श सर्वथा वर्जित है। माताओं और बहनों को अपने मासिक धर्म (Menstruation) के दिनों में इस उग्र साधना और पूजा सामग्री के स्पर्श से सर्वथा दूर रहना चाहिए। इस अवधि में वे केवल मानसिक रूप से “ॐ श्रीं लक्ष्मी नरसिंहाय नमः” का जप कर सकती हैं।

  • तुलसी दल की अनिवार्यता: ध्यान रहे कि भगवान नरसिंह साक्षात श्रीहरि विष्णु के अवतार हैं। उनकी पूजा में तुलसी (Tulsi leaves) का होना अनिवार्य है। बिना तुलसी दल के उनका भोग अधूरा माना जाता है। परंतु ध्यान रखें कि रविवार, एकादशी और द्वादशी के दिन तुलसी पत्र तोड़ना वर्जित है, अतः इन्हें एक दिन पूर्व ही तोड़कर रख लें।

6. आधुनिक युग में नरसिंह सहस्रनाम की असीम प्रासंगिकता (Relevance in Modern Era)

आज का आधुनिक २१वीं सदी का युग अत्यधिक तकनीकी, भौतिकवादी और गलाकाट प्रतिस्पर्धा (Cut-throat Competition) का युग है। भले ही आज के समय में सतयुग की तरह दैत्य सामने आकर युद्ध नहीं करते, परंतु आज के ‘असुर’ हमारे समाज में और हमारे भीतर ‘अदृश्य’ रूप में मौजूद हैं।

कॉर्पोरेट राजनीति (Corporate Politics), साइबर बुलिंग, व्यापारिक प्रतिद्वंद्विता, आर्थिक मंदी, ब्लैकमेलिंग, और समाज में फैले धोखेबाज़ लोग आज के युग के ‘हिरण्यकशिपु’ हैं, जो व्यक्ति की मानसिक शांति और करियर को नष्ट करने का प्रयास करते हैं। इसके साथ ही, मनुष्य का सबसे बड़ा शत्रु उसके भीतर का मानसिक तनाव (Stress), एंग्जायटी (Anxiety), डिप्रेशन (Depression), और भविष्य की अनिश्चितता का भयंकर भय बन चुका है।

‘श्री नरसिंह सहस्रनाम स्तोत्रम्’ आधुनिक मनुष्य के इन्हीं मानसिक, सामाजिक और आर्थिक संकटों का सबसे शक्तिशाली आध्यात्मिक और मनोवैज्ञानिक उपचार (Psychological Shield) है:

  1. मानसिक सुदृढ़ता और डिप्रेशन का अंत: जब मनुष्य को लगता है कि वह चारों ओर से समस्याओं से घिर चुका है, कर्ज का बोझ बढ़ गया है और आत्महत्या जैसे विचार मन में आने लगते हैं, तब नरसिंह सहस्रनाम की प्रचंड ऊर्जा उसके भीतर बालक प्रह्लाद जैसी अटूट आस्था और एक महायोद्धा के समान साहस फूंक देती है। वह परिस्थितियों से भागने के बजाय उनका डटकर सामना करना सीख जाता है।

  2. टॉक्सिक (Toxic) ऊर्जा से अभेद्य सुरक्षा: आज के युग में ईर्ष्या, द्वेष और नकारात्मक तरंगें (Negative Vibrations) बहुत जल्दी व्यक्ति के मनोबल और स्वास्थ्य को प्रभावित करती हैं। इस पाठ से साधक के चारों ओर जो ‘ऑरा’ (Aura) बनता है, वह सोशल मीडिया और डिजिटल दुनिया के मानसिक प्रदूषण व ईर्ष्यालु लोगों के षड्यंत्रों से उसकी पूर्ण रक्षा करता है।

  3. बौद्धिक स्पष्टता और निर्णय क्षमता: यह सहस्रनाम मस्तिष्क के ‘ब्रेन फॉग’ (Brain Fog) को दूर करता है। भगवान नरसिंह की चेतना साधक को वह कुशाग्र बुद्धि प्रदान करती है जिससे वह कठिन और तनावपूर्ण परिस्थितियों में भी शांत रहकर सटीक और दूरदर्शी निर्णय (Decision-making power) ले पाता है।

  4. शनि दोष (Sade Sati) से रक्षा: आधुनिक जीवन में जब व्यक्ति पर शनि की साढ़ेसाती या ढैय्या का प्रकोप होता है, तो उसका व्यापार और करियर ठप्प हो जाता है। शास्त्रों के अनुसार, भगवान नरसिंह की शरण में जाने वाले साधक को शनि देव कभी प्रताड़ित नहीं करते। यह पाठ शनि जनित समस्त कष्टों का तत्काल शमन करता है।

Brahmanda Purana Ukta Shri Narasimha Sahasranama Stotram (श्री नरसिंह सहस्रनाम स्तोत्रम्) केवल संस्कृत शब्दों का एक सुंदर काव्यात्मक संकलन नहीं है; यह संपूर्ण ब्रह्मांड के रक्षक, दुष्टदलन, और साक्षात परब्रह्म नारायण की उस प्रचंड चेतना और नाद-ब्रह्म का साक्षात स्वरूप है, जिसके एक सिंह-गर्जन से साक्षात काल, मृत्यु, दरिद्रता और भयंकर आसुरी शक्तियां भी थर-थर कांप उठती हैं। जब एक साधक अपने सारे लौकिक ज्ञान, चालाकियों और अहंकार को त्यागकर, एक अबोध शिशु प्रह्लाद की भांति पूर्ण शरणागति के भाव से इस सहस्रनाम को समर्पित करता है, तो भगवान नरसिंह अपने तीखे नाखूनों और चक्र के साथ उसकी रक्षा के लिए खंभे को क्या, पूरे ब्रह्मांड को चीरकर तुरंत दौड़े चले आते हैं।

भगवान नरसिंह बाहर से भले ही उग्र और भयंकर दिखाई दें, परंतु वे वास्तव में परम दयामयी, भक्त-वत्सल और अपने बच्चों से अगाध प्रेम करने वाले कृपालु जगदीश्वर हैं। जब भी आपको लगे कि आप जीवन के भौतिक संघर्षों में पूरी तरह टूट चुके हैं, भयंकर कर्जों ने आपको मानसिक रूप से मृतप्राय कर दिया है, गुप्त शत्रु आपका करियर या परिवार बर्बाद करना चाहते हैं, कोर्ट-कचहरी ने आपको घेर लिया है, या कोई अज्ञात भय आपको अंदर से खा रहा है, तो मंगलवार या शनिवार की शाम को सात्विक भाव से पीले आसन पर बैठें, घी का दीपक प्रज्वलित करें, तुलसी दल अर्पित करें, और पूर्ण शरणागति व प्रेमपूर्ण हृदय से इस सहस्रनाम का गान करते हुए अपने ‘नरसिंह देव’ को पुकारें।

आप स्वयं अनुभव करेंगे कि प्रभु के दिव्य नाखूनों ने आपके जीवन की सारी बाधाओं, दरिद्रता, शत्रुओं और भयों को चीरकर नष्ट कर दिया है, और साक्षात लक्ष्मी नरसिंह ने आपके जीवन को अपार सफलता, अदम्य साहस, स्थिर धन-धान्य, आरोग्यता और परम मानसिक शांति के दिव्य प्रकाश से आलोकित कर दिया है। ॐ क्ष्रौं नरसिंहाय नमः! जय श्री लक्ष्मी नरसिंह देव!

श्री नरसिंह सहस्रनाम स्तोत्रम्ः अक्सर पूछे जाने वाले प्रश्न (FAQs)

1. श्री नरसिंह सहस्रनाम स्तोत्रम् क्या है और इसकी उत्पत्ति कहाँ से हुई है?

श्री नरसिंह सहस्रनाम स्तोत्रम् भगवान विष्णु के चौथे अवतार, उग्र व कृपालु रुद्रावतार भगवान नरसिंह के 1000 परम पवित्र, जाग्रत और रहस्यमयी नामों का एक सिद्ध संकलन है। धार्मिक ग्रंथों के अनुसार, इसकी उत्पत्ति मुख्य रूप से ‘ब्रह्मांड पुराण’ (Brahmanda Purana) से मानी जाती है। इसका महत्व इसलिए सर्वोपरि है क्योंकि यह जीवन के भयंकर से भयंकर संकटों, शत्रुओं के षड्यंत्रों, और अकाल मृत्यु के भय को जड़ से समाप्त करने की क्षमता रखता है।

2. इस सहस्रनाम का पाठ करने से जीवन में कौन सा सबसे बड़ा चमत्कारी लाभ मिलता है?

इस सहस्रनाम का सबसे प्रत्यक्ष और त्वरित लाभ ‘गुप्त व दृश्य शत्रुओं पर अजेय विजय’ और ‘हर प्रकार के काले जादू (Black Magic), तांत्रिक अभिचार कर्मों या भयंकर नजर-दोष का तत्काल नाश’ है। इसके नियमित पाठ से भारी कर्जों (Debts) से मुक्ति मिलती है, कोर्ट-कचहरी के मामलों में सफलता मिलती है, शनि की साढ़ेसाती के कष्ट शांत होते हैं, और व्यक्ति के भीतर से अकाल मृत्यु व भयंकर मानसिक रोगों (Depression/Anxiety) का डर पूरी तरह समाप्त हो जाता है।

3. नरसिंह सहस्रनाम का पाठ करने के लिए सप्ताह का कौन सा दिन और समय सर्वोत्तम माना गया है?

भगवान नरसिंह की आराधना के लिए ‘मंगलवार’ (Tuesday – ऋण मुक्ति व शत्रु नाश हेतु) और ‘शनिवार’ (Saturday – शनि दोष व ग्रहों की शांति हेतु) का दिन सबसे श्रेष्ठ और जाग्रत माना जाता है। वैशाख मास की नरसिंह जयंती (चतुर्दशी) इसके लिए अनंत फलदायी है। चूंकि भगवान का प्राकट्य संध्या के समय हुआ था, अतः इसका पाठ करने का सबसे उत्तम समय ‘संध्याकाल’ (सूर्यास्त का समय) होता है।

4. क्या सामान्य गृहस्थ व्यक्ति (स्त्री या पुरुष) घर पर नरसिंह सहस्रनाम का पाठ कर सकते हैं?

जी हाँ, बिल्कुल! कोई भी गृहस्थ व्यक्ति (चाहे स्त्री हो या पुरुष) पूर्ण सात्विकता, पवित्रता और श्रद्धा का पालन करते हुए आत्म-कल्याण और अपने परिवार की रक्षा के लिए इसका पाठ कर सकता है। गृहस्थों को केवल यह ध्यान रखना चाहिए कि वे शास्त्रों में वर्णित ‘सात्विक मार्ग’ का पालन करें, घर में भगवान का उग्र रूप न रखकर ‘माता लक्ष्मी के साथ विराजमान सौम्य रूप (लक्ष्मी नरसिंह)’ का चित्र लगाएं और उनकी पूजा में अनिवार्य रूप से तुलसी दल का प्रयोग करें।

5. भगवान नरसिंह की इस प्रखर साधना को करते समय सबसे बड़ी सावधानी क्या रखनी चाहिए?

इस साधना की सबसे बड़ी और अनिवार्य सावधानी यह है कि इसका प्रयोग कभी भी ‘प्रतिशोध’ (किसी निर्दोष व्यक्ति से बदला लेने या अकारण किसी को नुकसान पहुँचाने) की भावना से नहीं करना चाहिए। भगवान नरसिंह न्याय और धर्म के रक्षक हैं; गलत मंशा या दुर्भावना से किया गया पाठ साधक का ही अहित कर सकता है। इसके अतिरिक्त, साधना काल में कठोर ब्रह्मचर्य का पालन करना, मांस-मदिरा (तामसिक भोजन) से सर्वथा दूर रहना, क्रोध पर पूर्ण नियंत्रण रखना, और स्त्रियों व बेजुबान जीवों का आदर करना अनिवार्य नियम है।

"नमस्कार! मैं अमित तिवारी हूँ, और आप मुझे एक 'साधक' के रूप में जान सकते हैं। बचपन से ही सनातन धर्म, तंत्र-मंत्र और आध्यात्मिक साधनाओं ने मुझे अपनी ओर गहराई से आकर्षित किया है। वर्षों के निरंतर अध्ययन, गुरु-कृपा और अपने व्यक्तिगत साधना-अनुभवों से मैंने जो कुछ भी सीखा है, उसे मैं sadhnas.in के माध्यम से आपके साथ साझा कर रहा हूँ। मेरा मुख्य उद्देश्य इंटरनेट पर फैले भ्रम को दूर करके प्रामाणिक, सत्य और शास्त्र-सम्मत जानकारी को बेहद सरल भाषा में आप तक पहुँचाना है। मैं कोई गुरु या उपदेशक नहीं हूँ, बल्कि आप ही की तरह ईश्वर की खोज में निकला एक राही हूँ। मेरी यही कोशिश है कि मेरे अनुभवों और लेखनी से आपकी आध्यात्मिक यात्रा और भी सुगम व सफल हो सके।"

error: Content is protected !!