श्री परमेश्वर स्तुतिः (देवदारुवनस्थ मुनि कृतम्) | Devadaru Vanastha Muni Krita Parameshwara StutiIt takes 1 minutes... to read this article !

Devadaru Vanastha Muni Krita Parameshwara Stuti: देवदारु-वानस्थ मुनि कृत परमेश्वर स्तुति एक पवित्र संस्कृत स्तोत्र है जिसमें देवदारु-वानस्थ मुनि द्वारा भगवान परमेश्वर (शिव/ईश्वर) की महिमा, भक्तिपूर्ण गुणगान और दिव्य भक्ति का सुंदर वर्णन किया गया है। यह स्तुति पाठक को भक्ति-भाव, आध्यात्मिक शांति और ईश्वर की कृपा की अनुभूति प्रदान करती है।

ऋषय ऊचुः ।
नमो दिग्वाससे नित्यं कृतान्ताय त्रिशूलिने ।
विकटाय करालाय करालवदनाय च ॥ १ ॥

अरूपाय सुरूपाय विश्वरूपाय ते नमः ।
कटङ्कटाय रुद्राय स्वाहाकाराय वै नमः ॥ २ ॥

सर्वप्रणतदेहाय स्वयं च प्रणतात्मने ।
नित्यं नीलशिखण्डाय श्रीकण्ठाय नमो नमः ॥ ३ ॥

नीलकण्ठाय देवाय चिताभस्माङ्गधारिणे ।
त्वं ब्रह्मा सर्वदेवानां रुद्राणां नीललोहितः ॥ ४ ॥

आत्मा च सर्वभूतानां साङ्ख्यैः पुरुष उच्यते ।
पर्वतानां महामेरुर्नक्षत्राणां च चन्द्रमाः ॥ ५ ॥

ऋषीणां च वसिष्ठस्त्वं देवानां वासवस्तथा ।
ओङ्कारः सर्ववेदानां श्रेष्ठं साम च सामसु ॥ ६ ॥

आरण्यानां पशूनां च सिंहस्त्वं परमेश्वरः ।
ग्राम्याणामृषभश्चासि भगवान् लोकपूजितः ॥ ७ ॥

सर्वथा वर्तमानोऽपि यो यो भावो भविष्यति ।
त्वामेव तत्र पश्यामो ब्रह्मणा कथितं यथा ॥ ८ ॥

कामः क्रोधश्च लोभश्च विषादो मद एव च ।
एतदिच्छामहे बोद्धुं प्रसीद परमेश्वर ॥ ९ ॥

महासंहरणे प्राप्ते त्वया देव कृतात्मना ।
करं ललाटे संविध्य वह्निरुत्पादितस्त्वया ॥ १० ॥

तेनाग्निना तदा लोका अर्चिर्भिः सर्वतो वृताः ।
तस्मादग्निसमा ह्येते बहवो विकृताग्नयः ॥ ११ ॥

कामः क्रोधश्च लोभश्च मोहो दम्भ उपद्रवः ।
यानि चान्यानि भूतानि स्थावराणि चराणि च ॥ १२ ॥

दह्यं ते प्राणिनस्ते तु त्वत्समुत्थेन वह्निना ।
अस्माकं दह्यमानानां त्राता भव सुरेश्वर ॥ १३ ॥

त्वं च लोकहितार्थाय भूतानि परिषिञ्चसि ।
महेश्वर महाभाग प्रभो शुभनिरीक्षक ॥ १४ ॥

आज्ञापय वयं नाथ कर्तारो वचनं तव ।
भूतकोटिसहस्रेषु रूपकोटिशतेषु च ॥ १५ ॥

अन्तं गन्तुं न शक्ताः स्म देवदेव नमोऽस्तु ते ॥ १६ ॥

इति श्रीलिङ्गमहापुराणे पूर्वभागे द्वात्रिंशोऽध्याये देवदारुवनस्थ मुनिकृत परमेश्वर स्तुतिः ।

हमारी एडिटोरियल टीम अनुभवी वैदिक एवं तांत्रिक साधकों का एक समर्पित समूह है, जिन्होंने वर्षों तक वेद, तंत्र और प्राचीन शास्त्रों का गहन अध्ययन किया है। इन ग्रंथों में वर्णित साधनाओं का विधिवत पुरश्चरण कर, व्यावहारिक अनुभव के साथ ज्ञान को आत्मसात किया गया है। Sadhanas.in पर प्रकाशित प्रत्येक लेख और साधना शुद्ध रूप से प्राचीन शास्त्रों एवं प्रमाणिक ग्रंथों के अध्ययन पर आधारित है, ताकि साधकों को प्रामाणिक, सुरक्षित और सही मार्गदर्शन प्राप्त हो सके।

error: Content is protected !!