Jatayu Kruta Sri Rama Stotram: जटायु कृत श्री राम स्तोत्रम् एक पवित्र संस्कृत स्तोत्र है जिसमें पक्षी जटायु द्वारा भगवान श्री राम की महिमा, वीरता और भक्तिपूर्ण गुणगान का सुंदर वर्णन किया गया है। यह स्तोत्र पाठक को भक्ति-भाव, श्रद्धा, साहस और आध्यात्मिक शांति की अनुभूति प्रदान करता है।
श्री राम स्तुतिः (जटायु कृतम्)
जटायुरुवाच ।
अगणितगुणमप्रमेयमाद्यं
सकलजगत्स्थितिसम्यमादिहेतुम् ।
उपरमपरमं परमात्मभूतं
सततमहं प्रणतोऽस्मि रामचन्द्रम् ॥ १ ॥
निरवधिसुखमिन्दिराकटाक्षं
क्षपितसुरेन्द्रचतुर्मुखादिदुःखम् ।
नरवरमनिशं नतोऽस्मि रामं
वरदमहं वरचापबाणहस्तम् ॥ २ ॥
त्रिभुवनकमनीयरूपमीड्यं
रविशतभासुरमीहितप्रदानम् ।
शरणदमनिशं सुरागमूले
कृतनिलयं रघुनन्दनं प्रपद्ये ॥ ३ ॥
भवविपिनदवाग्निनामधेयं
भवमुखदैवतदैवतं दयालुम् ।
दनुजपतिसहस्रकोटिनाशं
रवितनयासदृशं हरिं प्रपद्ये ॥ ४ ॥
अविरतभवभावनातिदूरं
भवविमुखैर्मुनिभिः सदैव दृश्यम् ।
भवजलधिसुतारणाङ्घ्रिपोतं
शरणमहं रघुनन्दनं प्रपद्ये ॥ ५ ॥
गिरिशगिरिसुतामनोनिवासं
गिरिवरधारिणमीहिताभिरामम् ।
सुरवरदनुजेन्द्रसेविताङ्घ्रिं
सुरवरदं रघुनायकं प्रपद्ये ॥ ६ ॥
परधनपरदारवर्जितानां
परगुणभूतिषु तुष्टमानसानाम् ।
परहितनिरतात्मनां सुसेव्यं
रघुवरमम्बुजलोचनं प्रपद्ये ॥ ७ ॥
स्मितरुचिरविकासिताननाब्ज-
-मतिसुलभं सुरराजनीलनीलम् ।
सितजलरुहचारुनेत्रशोभं
रघुपतिमीशगुरोर्गुरुं प्रपद्ये ॥ ८ ॥
हरिकमलजशम्भुरूपभेदा-
-त्त्वमिह विभासि गुणत्रयानुवृत्तः ।
रविरिव जलपूरितोदपात्रे-
-ष्वमरपतिस्तुतिपात्रमीशमीडे ॥ ९ ॥
रतिपतिशतकोटिसुन्दराङ्गं
शतपथगोचरभावनाविदूरम् ।
यतिपतिहृदये सदा विभातं
रघुपतिमार्तिहरं प्रभुं प्रपद्ये ॥ १० ॥
इत्येवं स्तुवतस्तस्य प्रसन्नोऽभूद्रघूत्तमः ।
उवाच गच्छ भद्रं ते मम विष्णोः परं पदम् ॥ ११ ॥
शृणोति य इदं स्तोत्रं लिखेद्वा नियतः पठेत् ।
स याति मम सारूप्यं मरणे मत् स्मृतिं लभेत् ॥ १२ ॥
इति राघवभाषितं तदा
श्रुतवान् हर्षसमाकुलो द्विजः ॥
रघुनन्दनसाम्यमास्थितः
प्रययौ ब्रह्मसुपूजितं पदम् ॥ १३ ॥