Sri Dwadasa Arya Surya Stuti: श्री द्वादश आर्य सूर्य स्तुति एक पवित्र संस्कृत स्तोत्र है जिसमें सूर्य देव की महिमा, दिव्यता और जीवन-दायिनी ऊर्जा का सुंदर भक्ति-पूर्ण वर्णन किया गया है। यह स्तुति पाठकों को ऊर्जा, भक्ति-भाव और आध्यात्मिक शांति का अनुभव प्रदान करती है।
श्री द्वादशार्या सूर्य स्तुतिः
उद्यन्नद्य विवस्वानारोहन्नुत्तरां दिवं देवः ।
हृद्रोगं मम सूर्यो हरिमाणं चाऽऽशु नाशयतु ॥ १ ॥
निमिषार्धेनैकेन द्वे च शते द्वे सहस्रे द्वे ।
क्रममाण योजनानां नमोऽस्तु ते नलिननाथाय ॥ २ ॥
कर्मज्ञानखदशकं मनश्च जीव इति विश्वसर्गाय ।
द्वादशधा यो विचरति स द्वादशमूर्तिरस्तु मोदाय ॥ ३ ॥
त्वं हि यजू ऋक् सामः त्वमागमस्त्वं वषट्कारः ।
त्वं विश्वं त्वं हंसः त्वं भानो परमहंसश्च ॥ ४ ॥
शिवरूपात् ज्ञानमहं त्वत्तो मुक्तिं जनार्दनाकारात् ।
शिखिरूपादैश्वर्यं त्वत्तश्चारोग्यमिच्छामि ॥ ५ ॥
त्वचि दोषा दृशि दोषाः हृदि दोषा येऽखिलेन्द्रियजदोषाः ।
तान् पूषा हतदोषः किञ्चिद्रोषाग्निना दहतु ॥ ६ ॥
धर्मार्थकाममोक्षप्रतिरोधानुग्रतापवेगकरान् ।
बन्दीकृतेन्द्रियगणान् गदान् विखण्डयतु चण्डांशुः ॥ ७ ॥
येन विनेदं तिमिरं जगदेत्य ग्रसति चरमचरमखिलम् ।
धृतबोधं तं नलिनीभर्तारं हर्तारमापदामीडे ॥ ८ ॥
यस्य सहस्राभीशोरभीशु लेशो हिमांशुबिम्बगतः ।
भासयति नक्तमखिलं भेदयतु विपद्गणानरुणः ॥ ९ ॥
तिमिरमिव नेत्रतिमिरं पटलमिवाऽशेषरोगपटलं नः ।
काशमिवाधिनिकायं कालपिता रोगयुक्ततां हरतात् ॥ १० ॥
वाताश्मरीगदार्शस्त्वग्दोषमहोदरप्रमेहांश्च ।
ग्रहणीभगन्धराख्या महतीस्त्वं मे रुजो हंसि ॥ ११ ॥
त्वं माता त्वं शरणं त्वं धाता त्वं धनं त्वमाचार्यः ।
त्वं त्राता त्वं हर्ता विपदामर्क प्रसीद मम भानो ॥ १२ ॥
इत्यार्याद्वादशकं साम्बस्य पुरो नभः स्थलात्पतितम् ।
पठतां भाग्यसमृद्धिः समस्तरोगक्षयश्च स्यात् ॥ १३ ॥