Sri Medha Dakshinamurthy Mantra Varna Pada Stuti: श्री मेधा दक्षिणामूर्ति मन्त्र वर्ण-पदा स्तुति एक पवित्र संस्कृत स्तोत्र है जिसमें भगवान दक्षिणामूर्ति (शिव का ज्ञान-स्वरूप) की महिमा, बुद्धि-दान, ज्ञान के गुण और भक्तिपूर्ण स्तुति का सुंदर वर्णन किया गया है। यह स्तुति भक्तों को ज्ञान, भक्ति-भाव और आध्यात्मिक शांति की अनुभूति प्रदान करती है।
श्री मेधा दक्षिणामूर्ति मन्त्रवर्णपद स्तुतिः
ओमित्येकाक्षरं ब्रह्म व्याहरन्ति त्रयः शिखाः ।
तस्मै तारात्मने मेधादक्षिणामूर्तये नमः ॥ १ ॥
नत्वायं मुनयः सर्वे परं यान्ति दुरासदम् ।
नकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ २ ॥
मोहजालविनिर्मुक्तो ब्रह्मविद्याति यत्पदम् ।
मोकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ ३ ॥
भवमाश्रित्य यं विद्वान् नभवोह्यभवत्परः ।
भकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ ४ ॥
गगनाकारवद्भान्तमनुभात्यखिलं जगत् ।
गकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ ५ ॥
वटमूलनिवासो यो लोकानां प्रभुरव्ययः ।
वकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ ६ ॥
तेजोभिर्यस्य सूर्योऽसौ कालक्लुप्तिकरो भवेत् ।
तेकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ ७ ॥
दक्षत्रिपुरसंहारे यः कालविषभञ्जने ।
दकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ ८ ॥
क्षिप्रं भवति वाक्सिद्धिर्यन्नामस्मरणान्नृणाम् ।
क्षिकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ ९ ॥
णाकारवाच्यो यः सुप्तं सन्दीपयति मे मनः ।
णाकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ १० ॥
मूर्तयो ह्यष्टधा यस्य जगज्जन्मादिकारणम् ।
मूकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ ११ ॥
तत्त्वं ब्रह्मासि परममिति यद्गुरुबोधितः ।
सरेफतात्मने मेधादक्षिणामूर्तये नमः ॥ १२ ॥
येयं विदित्वा ब्रह्माद्या ऋषयो यान्ति निर्वृतिम् ।
येकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ १३ ॥
महतां देवमित्याहुर्निगमागमयोः शिवः ।
मकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ १४ ॥
सर्वस्य जगतोह्यन्तर्बहिर्यो व्याप्य संस्थितः ।
ह्यकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ १५ ॥
त्वमेव जगतः साक्षी सृष्टिस्थित्यन्तकारणम् ।
मेकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ १६ ॥
दामेति धातृसृष्टेर्यत्कारणं कार्यमुच्यते ।
धाङ्काररूपिणे मेधादक्षिणामूर्तये नमः ॥ १७ ॥
प्रकृतेर्यत्परं ध्यात्वा तादात्म्यं याति वै मुनिः ।
प्रकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ १८ ॥
ज्ञानिनोयमुपास्यन्ति तत्त्वातीतं चिदात्मकम् ।
ज्ञाकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ १९ ॥
प्रज्ञा सञ्जायते यस्य ध्याननामार्चनादिभिः ।
प्रकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ २० ॥
यस्य स्मरणमात्रेण नरो मुक्तः सबन्धनात् ।
यकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ २१ ॥
छवेर्यन्नेन्द्रियाण्यापुर्विषयेष्विह जाड्यताम् ।
छकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ २२ ॥
स्वान्तेविदां जडानां यो दूरे तिष्ठति चिन्मयः ।
स्वाकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ २३ ॥
हारप्रायफणीन्द्राय सर्वविद्याप्रदायिने ।
हाकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ २४ ॥