श्री उच्छिष्ट गणपति सहस्रनाम स्तोत्र | उच्छिष्टगणपतिसहस्रनामस्तोत्रम् रुद्रयामलान्तर्गतम्, मन्त्रमहार्णवान्तर्गतम् | Shree Uchchishta Ganpati Sahasranama StotramIt takes 7 minutes... to read this article !

श्री उच्छिष्ट गणपति सहस्रनाम स्तोत्र श्री विद्या से संबंधित उच्छिष्ट गणेश साधना कल्प रुद्रयामल तंत्र से लिया गया है। इस सहस्रनाम स्तोत्रम् में उच्छिष्ट गणपति के 1000 नाम या गुण वर्णित हैं। उच्छिष्ट गणपति सहस्रनाम स्तोत्र का पूरी निष्ठा और श्रद्धा से पाठ या साधना करना साधक की आध्यात्मिक और भौतिक उन्नति के लिए अत्यंत लाभकारी माना जाता है।

उच्छिष्टगणेशसहस्रनामस्तोत्रम् २

श्रीभैरव उवाच ।

श‍ृणु देवि रहस्यं मे यत्पुरा सूचितं मया ।
तव भक्त्या गणेशस्य वक्ष्ये नामसहस्रकम् ॥ १॥

देव्युवाच ।

ॐ भगवन्गणनाथस्थ उच्छिष्टस्य महात्मनः ।
श्रोतुं नामसहस्रं मे हदयं चोत्सुकायते ॥ २॥

भैरव उवाच ।

प्राङ्मुख त्रिपुरानाथे जातविघ्नाकुले शिवे ।
मोहने मुच्यते चेतस्ते सवे बलदर्पिताः ॥ ३॥

तदा प्रभुं गणाध्यक्षं स्तुत्वा नामसहस्रकम् ।
विघ्ना दूरात्यपलायते कालरुद्रादिव प्रजाः ॥ ४॥

तस्यानुग्रहतो देवि जातोऽहं त्रिपुरान्तकः ।
तमद्यापि गणेशानं स्तात्रं नामसहस्रकैः ॥ ५॥

तमेव तव भक्त्याहं साधकानां हिताय च ।
महागणपतेर्वक्ष्ये दिव्यं नामसहस्रकम् ॥ ६॥

विनियोगः

ॐ अस्य श्रीउच्छिष्टगणेश सहस्रनामस्तोत्र मन्त्रस्य श्रीभैरव ऋषिः । गायत्री छन्दः । श्रीमहागणपतिर्देवता ।
गं बीजम् । ह्रीं शक्तिः । कुरुकुरु कीलकम् । मम धर्मार्थकाममोक्षार्थे जपे विनियोगः ।

मूल पाठ 

ॐ ह्रीं श्रीं श्रीगणाध्यक्षो ग्लौं गं गणपतिर्गुणी ।
गुणाढ्यो निर्गुणो गोप्ता गजवक्त्रो विभावसुः ॥ ७॥

विश्वेश्वरो विभादीप्तो दीपनो धीवरो धनी ।
सदाशान्तो जगत्त्राता विश्वावर्तो विभाकरः ॥ ८॥

विश्रम्भी विजयो वैद्यो वारान्निधिरनुत्तमः ।
अणिमाविभवः श्रेष्ठो ज्येष्ठो गाथाप्रियो गुरुः ॥ ९॥

सृष्टिकर्ता जगद्धर्ता विश्वभर्ता जगन्निधिः ।
पतिः पीतविभूषाङ्को रक्तास्यो लोहिताम्बरः ॥ १०॥

द्विपाक्षोच्चविमानस्थो विनयः सदयः सुखी ।
सुरूपः सात्त्विकः सत्यः शुद्धः शङ्करनन्दनः ॥ ११॥

नन्दीश्वरो जयानन्दी बन्धस्तुत्यो विचक्षणः ।
दैत्यमर्द्दी सदाक्षीवो मदिरारुणलोचनः ॥ १२॥

सरात्मा विश्वासारश्च विश्वधारो विलेपनः ।
परं ब्रह्म परं ज्योतिः साक्षी त्र्यक्षो त्रिकस्थितः ॥ १३॥

विश्वेश्वरो वीरहर्ता सौभाग्यो भाग्यवर्द्धनः ।
भृङ्गीरिटी भृङ्गमाली भृङ्गकूजितनादितः ॥ १४॥

विवर्तको विनीतोऽपि नयनानन्दनार्चितः ।
गङ्गाजलपानप्रियो गङ्गातीरविहारणः ॥ १५॥

गङ्गाप्रियो गङ्गजश्च वाहनानि पुरः सदा ।
गन्धमादनसंवासो गन्धमादनकेलिकृत ॥ १६॥

गन्धानुलिप्तपूर्वाङ्गः सर्वदेवस्मरः सदा ।
गन्धर्वगणराजेशो गन्धर्वगणसेवितः ॥ १७॥

गन्धर्वपूजितो नित्यं सर्वरोगविनाशकः ।
गन्धर्वगणसंसेव्यो गन्धर्ववरदायकः ॥ १८॥

गन्धर्वो गन्धमातङ्गो गन्धर्वकुलदैवतः ।
गन्धर्वगर्वसंवेगो गन्धर्ववरदायकः ॥ १९॥

गन्धर्वप्रवलाः सत्वं गन्धर्वगणसंयुतः ।
गन्धर्वादिगुणानन्दो नन्दोऽनन्तगुणात्मकः ॥ २०॥

विश्वमूर्तिर्विश्वधाता विनतास्यो विनर्तकः ।
करालः कामदः कान्तः कमनीयः कलानिधिः ॥ २१॥

कारुण्यरूपः कुटिलः कुलाचारी कुलेश्वरः ।
विकरालो रणः श्रेष्ठः संहारो हारभूषणः ॥ २२॥

ऊरूरम्यमुखो रक्तो देवतादयितो रसः ।
महाकालो महादंष्ट्रो महोरगभयानकः ॥ २३॥

उन्मत्तरूपः कालाग्निरग्निसूर्येन्दुलोचनः ।
सितास्यश्चासितात्मा भैरवसौभाग्यवान्भगः ॥ २४॥

भर्गात्मजो भगावासो भगदो भगवर्द्धनः ।
शुभङ्करः शुचिः शान्तः श्रेष्ठः श्रव्यः शचीपतिः ॥ २५॥

वेदाद्यो वेदकर्ता च वेदवेद्यः सनातनः ।
विद्याप्रदो वेदरसो वैदिको वेदपारगः ॥ २६॥

वेदध्वनिरतो वीरो वेदवेदाङ्गस्वर्थवित् ।
तत्वज्ञः सर्वगः साधुः सदयः सदसन्मयः ॥ २७॥

शिवङ्करः शिवसुतः शिवानन्दविवर्द्धनः ।
सैन्यः श्वेतः शतमुखो मुग्धो मोदकभञ्जनः ॥ २८॥

देवदेवो दिनकरो धृतिमान्द्युतिमान्धनः ।
शुद्धात्मा शुद्धमतिमाञ्शुद्धदीपति: शुचिव्रतः ॥ २९॥

शरण्यः शौनकः शूरः शब्ददम्भी जटोरुकः ।
दारकः शिखिवाहेष्टः सितः शङ्करवल्लभः ॥ ३०॥

शङ्करो निर्भयो नित्यो लयकृल्लास्यतत्परः ।
लूतो लीलारसोल्लासी विलासी विभ्रमो भ्रमः ॥ ३१॥

भ्रमणः शशिभृत्सूर्यः शनिर्धरणिनन्दनः ।
बुधो विबुधसेव्यश्च बुधराजो बलन्धरः ॥ ३२॥

जीवो जीवप्रदो जेता स्तुत्यो नित्यो रतिप्रियः ।
कविः काव्यार्थकुशलो जनरक्षणतत्परः ॥ ३३॥

जनानन्दप्रदाता च जनकाह्लादकारकः ।
गच्छो गणपतिर्गच्छनायको गच्छगर्वहा ॥ ३४॥

गच्छराजोऽथ गच्छेशो गच्छराजनमस्कृतः ।
गच्छप्रियो गच्छगुरुर्गच्छत्राकृद्यमातुरः ॥ ३५॥

गच्छप्रभुर्गच्छचरो गच्छप्रियकृतोद्यमः ।
गच्छगीतगुणो गर्तो मर्यादाप्रतिपालकः ॥ ३६॥

गीर्वाणागमसारश्च नभो गीर्वाणदेवता ।
सम्पत्तिसदनाकारः सम्पत्तिसुखदायकः ॥ ३७॥

सम्पत्तिसुखकर्ता च सम्पत्तिसुभगाननः ।
सम्पत्तिशुभदो नित्यं सम्पत्तिश्च तपोधनः ॥ ३८॥

रुचको मेचकस्तुष्टः प्रभुस्तोमरघातकः ।
दण्डी चण्डांशुरव्यक्तः कमण्डलुधरोऽनघः ॥ ३९॥

कामी कर्मरतः कालकोलः क्रन्दितदिक्तटः ।
भ्रामको जातिपूज्यश्च जाड्यहा जडसूदनः ॥ ४०॥

जालन्धरो जगद्धासी हासकृद्गहनो गुहः ।
हविष्मान्हव्यवाहाक्षो हाटको हाटकाङ्गदः ॥ ४१॥

सुमेरुर्हिमवान्होता हरपुत्रो हलाङ्कपः ।
हालाप्रियो हृदा शान्तः कान्ताहृदयपोषणः ॥। ४२॥

शोषणः क्लेशहा क्रूरः कुबेरः कविताकृतिः ।
कुबेरो धीमयो धाता ध्येयो धीमान्दयानिधिः ॥ ४३॥

दविष्ठो दमनो हृष्टो दाता त्राता सितासमः ।
निर्गतो नैगमो गम्यो निर्जयो जटिलोऽजरः ॥ ४४॥

जनजीवो जितारातिर्जगद्व्यापी जगन्मयः ।
चामीकरनिभो नाभ्यो नलिनायतलोचनः ॥ ४५॥

रोचनामोचको मन्त्री मन्त्रकोटिसमाश्रितः ।
पञ्चभूतात्मकः पञ्चसायकः पञ्चवक्त्रकः ॥ ४६॥

पञ्चमः पश्चिमः पूर्वः पूर्णः कीर्णालकः कुणिः ।
कठोरहृदयग्रीवोऽलङ्कृतो ललिताशयः ॥ ४७॥

लोलचित्तो बृहन्नासो मासपक्षर्तुरूपवान् ।
ध्रुवो द्रुतगतिर्बन्धो धर्मवान्किंप्रियो नलः ॥ ४८॥

अगस्त्यग्रस्तभुवनो भुवनैकमलापहः ।
सागरः स्वर्गतिः स्वक्षः सानन्दः साधुपूजितः ॥ ४९॥

सतीपतिः समरसः सनकः सरलः सरः ।
सुरप्रियो वसुमतिर्वासवो वसुपूजितः ॥ ५०॥

वित्तदो वित्तनाथश्च धनिनां धनदायकः ।
राजीवनयनः स्मर्ता स्मृतिहा कृत्तिकाम्बरः ॥ ५१॥

अश्विनोऽश्विमुखः शुभ्रो भरणो भरणीप्रियः ।
कृत्तिकासनकः कोलो रोहिणी रोहिणोपमः ॥ ५२॥

क्रतवोष्टोरिमन्दी च रोहिणीमोहिनीभृतः ।
मृगराजो मृगशिरो माधवो मधुरध्वनिः ॥ ५३॥

आर्द्रानलो महाबुद्धिर्महोरगविभूषणः ।
भ्रूक्षेपदन्तविभवो भ्रूकरालः पुनर्नवः ॥ ५४॥

पुनर्देवः पुनर्जेता पुनर्जीवः पुनर्वसुः ।
तिमिरस्तिमिकेतुश्च तिमिवासरघातनः ॥ ५५॥

तिष्यस्तुलाधरो जृम्भो विश्लेषाश्लेषदानराट् ।
मानवो माधवो माघो वाचालो मघवा यमः ॥ ५६॥

मघो मघाप्रियो मेघो महाशुण्डो महाभुजः ।
पूर्वाफाल्गुनिकः प्रीतः फल्गुरुत्तरफाल्गुनः ॥ ५७॥

फेनिलो ब्रह्मदो ब्रह्मा सप्ततन्तुसमाश्रयः ।
घोणाहस्तश्चतुर्हस्तो हस्तिवक्त्रो हलायुधः ॥ ५८॥

चित्राम्बरोऽर्चितपदः स्वस्तिदः स्वस्तिविग्रहः ।
विशाखाशिखिसेव्यश्च शिखिध्वजसहोदरः ॥ ५९॥

अणूरेणूकरस्कारो रूरूरेणू सुतीनरः ।
अनूराधाप्रियो राधः श्रीमाञ्छुक्लः शुचिस्मितः ॥ ६०॥

ज्येष्ठः श्रेष्ठार्चितपदो मूलं त्रिजगतो गुरुः ।
शुचिः पूर्वोत्तराषाढश्चोत्तराषाढ ईश्वरः ॥ ६१॥

श्रव्योऽभिजिदनन्तात्मा श्रवश्चेष्टितदानवः ।
श्रावणः स्रावणः श्रोता धनी धन्यो धनप्रदः ॥ ६२॥

धनेच्छुकः सदातीव्रः शीतकुम्भः शरद्द्युतिः ।
पूर्वाभाद्रपदाभाद्रश्चोत्तराभाद्रपादितः ॥ ६३॥

रेणुकस्तनयो रामो रेवतीरमणो रमी ।
अश्वयुक्कार्तिकेयेष्टो मार्गशीर्षो मृगोत्तमः ॥ ६४॥

पौषैश्वर्यः फाल्गुनात्मा वसन्तश्चित्रको मधुः ।
राज्यदोऽभिजिदात्मीयस्तारेशस्तारकद्युतिः ॥ ६५॥

प्रतीतः प्रोर्जितः प्रीतः परमः परमो हितः ।
परहा पञ्चभूः पञ्चवायुपूज्यः परो महः ॥ ६६॥

पुराणागमविद्योगी महिषो रासभोऽग्रगः ।
ग्रहो मेषो वृषो मन्दो मन्मथो मिथुनाकृतिः ॥ ६७॥

कल्पभृत्कण्टकटको दीपो मर्कटेशप्रभुः ।
कर्कटो घृणिकुक्कूटो वनजो हंसयोहसः ॥ ६८॥

सिंहसिंहासनो भूष्यो मुहुर्मूषकवाहनः ।
कन्याकलावतीपुत्रो कन्याप्रीतः कुलोद्वहः ॥ ६९॥

अतुल्यरूपो बलदस्तुल्यभृत्तुल्यसाक्षिकः ।
अलिश्चापधरो धन्वी कच्छपो मकरो मणिः ॥ ७०॥

कुम्भभृत्कलशः कुब्जी मीनमांससुतर्पितः ।
राशिताराग्रहमयस्तिथिरूपो जगद्विभुः ॥ ७१॥

प्रतापी प्रतिपत्प्रेयो द्वितीयाद्वैतनिश्चितः ।
त्रिरुपश्च तृतीयाग्निस्त्रयीरूपस्त्रयीतनुः ॥ ७२॥

चतुर्थीवल्लभो देवो परागः पञ्चमीश्वरः ।
षड्रसास्वादको जातः षष्ठी षष्ठीकवत्सलः ॥ ७३॥

सप्तार्णवगतिः सारः सप्तमीश्वररोहितः ।
अष्टमीनन्दनोऽनन्तो नवमीभक्तिभावितः ॥ ७४॥

दशदिकपतिपूज्यश्च दशमीद्रुहिणो द्रुतः ।
एकादशात्मगणपो द्वादशीयुगचर्चितः ॥ ७५॥

त्रयोदशमणिस्तुत्यश्चतुर्दशस्वरप्रियः ।
चतुर्दशेन्द्रसंस्तुत्यः पूर्णिमानन्दविग्रहः ॥ ७६॥

दर्शादर्शौ दर्शगश्च वानप्रस्थो महेश्वरः ।
मौर्वी मधुरवाग्मूलं मूर्तिमान्मेघवाहनः ॥ ७७॥

महागजो जितक्रोधो जितशत्रुर्जयाश्रयः ।
रौद्रो रुद्रप्रियो रुद्रो रुद्रपुत्रोऽघनाशनः ॥ ७८॥

भवप्रियो भवानीष्टो भारभृद्भूतभावनः ।
गन्धर्वकुशलः कुण्ठो वैकुण्ठोऽभीष्टसेवितः ॥ ७९॥

वृत्रहा विघ्नहा सीरः समस्तदुरितापहा ।
मञ्जुरो मार्जरो मत्तो दुर्गापुत्रो दुरालसः ॥ ८०॥

अनन्तचित्सुधाधारो वीरवीर्यैकसाधकः ।
भास्वन्मुकुटमाणिक्यः कूजत्किङ्किणिजालकः ॥ ८१॥

शुण्डाधारी तुण्डचलः कुण्डली मुण्डमालकः ।
पद्माक्षः पद्महस्तश्च पद्मनाभसमर्चितः ॥ ८२॥

उदितारुणदन्तास्यो मालाभूषणभूषितः ।
नारदो वारणो लोलश्रवणः शूर्पकर्णकः ॥ ८३॥

बृहदुल्लासनासाढ्यो व्याप्तत्रैलोक्यमण्डलः ।
रत्नमण्डलासीनः कृशानुरूपशीलकः ॥ ८४॥

बृहत्कर्णाश्चलोद्भूतवायुवीजितदिक्पटः ।
बृहदास्यरवाक्रान्तो भीमब्रह्माण्डभाण्डकः ॥ ८५॥

बृहत्पादसमाक्रान्तः सप्तपातालदीपितः ।
बृहद्दन्तकृतात्युग्ररणानन्दरसालसः ॥ ८६॥

बृहद्धस्तधृताशेषायुधनर्जितदानवः ।
स्फुरत्सिन्दूरवदनः स्फुरत्तेजोऽग्निलोचनः ॥ ८७॥

उद्दीपितमणिस्फूर्जन्नूपुरध्वनिनादितः ।
चलतोयप्रवाहाढ्यो नदीजलकणाकरः ॥ ८८॥

भ्रमत्कुञ्जरसङ्घातवन्दिताङ्घ्रिशिरोरुहः ।
ब्रह्माच्युतमहारुद्रपुरःसरसुरार्चितः ॥ ८९॥

अशेषशेषप्रभृतिव्यालजालोपसेवितः ।
गर्जत्पञ्चाननारावप्रसादितधरातलः ॥ ९०॥

हाहाहूहूगतात्युग्रस्वरविभ्रान्तमानसः ।
पञ्चाशद्वर्णबीजाढयो मन्त्री मन्त्रितविग्रहः ॥ ९१॥

वेदान्तशास्त्रपीयूषधाराप्लावितभूतलः ।
शङ्खध्वनिसमाक्रान्तपातालादिनभस्तलः ॥ ९२॥

चिन्तामणिर्महामल्लो बल्लहस्तो बलिः कविः ।
कृतत्रेतायुगोल्लासभासमानजगत्त्रयः ॥ ९३॥

द्वापरः परलोकैकः कर्मध्वान्तसुधाकरः ।
सुधासिक्तवपुर्व्यासो ब्रह्माण्डादिकबाहुकः ॥ ९४॥

अकारादिक्षकारान्तवर्णपङ्क्तिसमुज्ज्वलः ।
अकाराकारमोद्गीतताननादनिनादितः ॥ ९५॥

इकारेकारमन्त्राढ्यो मालाभरणलालसः ।
उकारोकारमोहारिर्घोरनागोपवीतकः ॥ ९६॥

ऋवर्णाङ्कित ॠकारपद्मालयसमुज्जवलः ।
लृकारयुतॡकारशङ्खपूर्णदिगन्तरः ॥ ९७॥

एकारैकारगिरिजास्तनपानविचक्षणः ।
ओकारौकारविश्वादिकृतसृष्टिक्रमालसः ॥ ९८॥

अंओवर्णावलीव्याप्तपादादिशीर्षमण्डलः ।
कर्णतालकृतात्युच्चैर्वायुवीजितनिर्जरः ॥ ९९॥

खगेशध्वजरत्नाङ्कः किरीटारुणपादकः ।
गर्विताशेषगन्धर्व्वगीततत्परश्रोतृकः ॥ १००॥

घनवाहनवागीशपुरःसरसुरार्चितः ।
ङवर्णामृतवाराढ्यसोममानैकदन्तकः ॥ १०१॥

चन्द्रकुङ्कुमजम्बाललिप्तसिन्दूरविग्रहः ।
छत्रचामररत्नाढ्यमुकुटालङ्कृताननः ॥ १०२॥

जटाद्धमहानर्घमणिपङ्क्तिविराजितः ।
झङ्कारिमधुपव्रातगाननादविनादितः ॥ १०३॥

ञवर्णकृतसंहारदैत्यासृक्पर्णमुद्गरः ।
टकारश्च फलास्वादी वेपिताशेषमूर्धजः ॥ १०४॥

ताम्रसिन्दूरपूजाढ्यो ललाटफलकच्छविः ।
थकारधनपङ्क्त्याढ्यः सन्तोषितद्विजव्रजः ॥ १०५॥

दयामृतहृदम्भोजधृतन्रैलोक्यमण्डलः ।
धनदादिमहायक्षसंसेवितपदाम्बुजः ॥ १०६॥

नमिताशेषदेवौघकिरीटमणिरञ्जितः ।
परवर्गापवर्गादिभोगच्छेदनदक्षकः ॥ १०७॥

फणिचक्रसमाकरान्तमल्लमण्डलमण्डितः ।
बद्धभ्रूयुगभीमोग्रसंतर्जितसुरासुरः ॥ १०८॥

भवानीहृदयानन्दवर्द्धनैकनिशाकरः ।
मदिराकलशप्रीतः करालैककराम्बुजः ॥ १०९॥

यज्ञान्तरायसङ्घातसज्जीकृतवरायुधः ।
रत्नाकरसुताक्रान्तकान्तिकीर्तिविवर्धनः ॥ ११०॥

लम्बोदरमहाभीमवपुर्दीप्कृतासुरः ।
वरुणादिदिगीशानामर्चितार्चनचर्चितः ॥ १११॥

शङ्करैकप्रियः प्रेमनयनानन्दवर्द्धनः ।
षोडशस्वरतालापगीतगानविचक्षणः ॥ ११२॥

समदुर्गसरिन्नाथस्तारणार्कोडुपोहरः ।
ब्रह्मवैकुण्ठब्रह्मज्ञसंरक्षिततनूचरः ॥ ११३॥

ताराङ्कमन्त्रवर्णैकविग्रहोज्ज्वलविग्रहः ।
अकारादिक्षकारान्तविद्याभूषितविग्रहः ॥ ११४॥

ॐ श्रीविनायको ॐ ह्रीं विघ्नाध्यक्षो गणाधिपः ।
हेरम्बो मोदकाहारो वक्रतुण्डो विधिः स्मृतः ॥ ११५॥

वेदान्तगीतो विद्यार्थिसिद्धमन्त्रः षडक्षरः ।
गणेशो वरदो देवो द्वादशाक्षरमन्त्रितः ॥ ११६॥

सप्तकोटिमहामन्त्रमन्त्रिताशेषविग्रहः ।
गाङ्गेयो गणसेव्यक्ष ॐ श्रीद्वैमातुरः शिवः ॥ ११७॥

ॐ ह्रीं श्रीं क्लीं ग्लौं गं देवो महागणपतिः प्रभुः ।

इदं नामसहस्रं ते महागणपतेः स्मृतम् ॥ ११८॥

गुह्यं गोप्यतमं सिद्धं सर्वतन्त्रेषु गोपितम् ।
सर्वमन्त्रमयं दिव्यं सर्वमन्त्रविनायकम् ॥ ११९॥

ग्रहतारामयं राशिवर्णपङ्क्तिसमन्वितम् ।
सर्वविद्यामयं ब्रह्मसाधनं साधकप्रियम् ॥ १२०॥

गणेशस्य च सर्वस्वं रहस्यं त्रिदिवौकसाम् ।
यथेष्टफलदं लोके मनोरथप्रपूरणम् ॥ १२१॥

अष्टसिद्धिमयं श्रेष्ठं साधकानां जयप्रदम् ।
विनार्चनं बिना होमं विना न्यासं विना जपम् ॥ १२२॥

अणिमाद्यष्टसिद्धीनां साधनं स्मृतिमात्रतः ।
चतुर्थ्यामर्धरात्रे तु पठेन्मन्त्री चतुष्पथे ॥ १२३॥

लिखेद्भूर्जे महादेवि पुण्यं नामसहस्रकम् ।
धारयेत्तं चतुर्दश्यां मध्याह्ने मूर्ध्नि वा भुजे ॥ १२४॥

योषिद्वामकरे चैव पुरुषो दक्षिणे भुजे ।
स्तम्भयेदपि ब्रह्माणं मोहयेदपि शङ्करम् ॥ १२५॥

वशयेदपि त्रैलोक्यं मारयेदखिलान्रिपून् ।
उच्चाटयेच्च गीर्वाणं शमयेच्च धनञ्जयम् ॥ १२६॥

वन्ध्या पुत्रं लभेच्छीघ्रं निर्धनो धनमाप्नुयात् ।
त्रिवारं यः पठेद्रात्रौ गणेशस्य पुरः शिवे ॥ १२७॥

नक्तं शक्तियुतो देवि भुक्त्वा भोगान्यथेप्सितान् ।
प्रत्यक्षवरदं पश्येद्गणेशं साधकोत्तमः ॥ १२८॥

पराह्णे पठ्यते नाम्नां सहस्रं भक्तिपूर्वकम् ।
तस्य वित्तादिविभवो दारायुःसम्पदः सदा ॥ १२९॥

रणे राजभये द्यूते पठेन्नामसहस्रकम् ।
सर्वत्र जयमाप्नोति गणेशस्य प्रसादतः ॥ १३०॥

इतीदं पुण्यसर्वस्वं मन्त्रनामसहस्रकम् ।
महागणपतेः पुण्यं गोपनीयं स्वयोनिवत् ॥ १३१॥

॥ इति श्रीरुद्रयामलतन्त्रे उच्छिष्टगणेशसहस्रनामस्तोत्रं समाप्तम् ॥

श्री उच्छिष्ट गणपति सहस्रनाम स्तोत्र गीतार्थ सहित | Ucchista Ganesha Strotra With Lyrics And Meaning

श्री उच्छिष्ट गणपति सहस्रनाम स्तोत्र का पाठ सिद्ध करने की विधि व नियम

  • उच्छिष्ट गगणपति को तांत्रिकों द्वारा सर्वोपरि माना जाता है और अक्सर उन्हें तांत्रिक गणपति के रूप में संबोधित किया जाता है।
  • उच्छिष्ट गणपति सहस्रनाम स्तोत्र पाठ की विशेषता यह है कि इसमें किसी भी प्रकार का बंधन नहीं है जैसे स्वच्छता, समय में उलझने की आवश्यकता नहीं होती
  • कोई भी साधक अपनी इच्छानुसार किसी भी समय और स्थान पर बैठकर इसका पाठ कर सकता है।

हमारी एडिटोरियल टीम अनुभवी वैदिक एवं तांत्रिक साधकों का एक समर्पित समूह है, जिन्होंने वर्षों तक वेद, तंत्र और प्राचीन शास्त्रों का गहन अध्ययन किया है। इन ग्रंथों में वर्णित साधनाओं का विधिवत पुरश्चरण कर, व्यावहारिक अनुभव के साथ ज्ञान को आत्मसात किया गया है। Sadhanas.in पर प्रकाशित प्रत्येक लेख और साधना शुद्ध रूप से प्राचीन शास्त्रों एवं प्रमाणिक ग्रंथों के अध्ययन पर आधारित है, ताकि साधकों को प्रामाणिक, सुरक्षित और सही मार्गदर्शन प्राप्त हो सके।

error: Content is protected !!