श्री नृसिंह स्तुतिः (संस्कृत) | Shri Narasimha Stuti Lyrics in SanskritIt takes 2 minutes... to read this article !

श्री नृसिंह स्तुतिः का संपूर्ण संस्कृत पाठ पढ़ें। भगवान नृसिंह की महिमा, कृपा और संरक्षण का वर्णन करने वाली इस पवित्र स्तुति के श्लोक यहां उपलब्ध हैं।

श्री नृसिंह स्तुतिः भगवान विष्णु के नृसिंह अवतार को समर्पित एक पवित्र स्तुति है। भगवान नृसिंह भक्त प्रह्लाद के रक्षक और धर्म की रक्षा करने वाले अवतार के रूप में पूजित हैं। इस लेख में श्री नृसिंह स्तुतिः का संपूर्ण संस्कृत पाठ प्रस्तुत किया गया है।

श्री नृसिंह स्तुतिः मूल पाठ

सुरासुरशिरोरत्नकान्तिविच्छुरिताङ्घ्रये ।
नमस्त्रिभुवनेशाय हरये सिंहरूपिणे ॥ १ ॥

शत्रोः प्राणानिलाः पञ्च वयं दश जयोऽत्र कः ।
इति कोपादिवाताम्राः पान्तु वो नृहरेर्नखाः ॥ २ ॥

प्रोज्ज्वलज्ज्वलनज्वालाविकटोरुसटाच्छटः ।
श्वासक्षिप्तकुलक्ष्माभृत्पातु वो नरकेसरी ॥ ३ ॥

व्याधूतकेसरसटाविकरालवक्त्रं
हस्ताग्रविस्फुरितशङ्खगदासिचक्रम् ।
आविष्कृतं सपदि येन नृसिंहरूपं
नारायणं तमपि विश्वसृजं नमामि ॥ ४ ॥

दैत्यास्थिपञ्जरविदारणलब्धरन्ध्र-
-रक्ताम्बुनिर्जरसरिद्धनजातपङ्काः ।
बालेन्दुकोटिकुटिलाः शुकचञ्चुभासा
रक्षन्तु सिंहवपुषो नखरा हरेर्वः ॥ ५ ॥

दिश्यात्सुखं नरहरिर्भुवनैकवीरो
यस्याहवे दितिसुतोद्दलनोद्यतस्य ।
क्रोधोद्धतं मुखमवेक्षितुमक्षमत्वं
जानेऽभवन्निजनखेष्वपि यन्नतास्ते ॥ ६ ॥

वपुर्दलनसम्भ्रमात्स्वनखरं प्रविष्टे रिपौ
क्व यात इति विस्मयात्प्रहितलोचनः सर्वतः ।
वृथेति करताडनान्निपतितं पुरो दानवं
निरीक्ष्य भुवि रेणुवज्जयति जातहासो हरिः ॥ ७ ॥

चटच्चटिति चर्मणि च्छमिति चोच्छलच्छोणिते
धगद्धगिति मेदसि स्फुटरवेऽस्थिनि ष्ठागिति ।
पुनातु भवतो हरेरमरवैरिवक्षःस्थल
क्वणत्करजपञ्जरक्रकचकाषजन्माऽनलः ॥ ८ ॥

ससत्वरमितस्ततस्ततविहस्तहस्ताटवी-
-निकृत्तसुरशत्रुहृत्क्षतजसिक्तवक्षःस्थलः ।
स्फुरद्वरगभस्तिभिः स्थगितसप्तसप्तिद्युतिः
समस्तनिगमस्तुतो नृहरिरस्तु नः स्वस्तये ॥ ९ ॥

चञ्चच्चण्डनखाग्रभेदविगलद्दैत्येन्द्रवक्षःक्षर-
-द्रक्ताभ्यक्तसुपाटलोद्भटसदासम्भ्रान्तभीमाननः ।
तिर्यक्कण्ठकठोरघोषघटनासर्वाङ्गखर्वीभव-
-द्दिङ्मातङ्गनिरीक्षितो विजयते वैकुण्ठकण्ठीरवः ॥ १० ॥

दंष्ट्रासङ्कटवक्त्रकन्दरललज्जिह्वस्य हव्याशन-
-ज्वालाभासुरभूरिकेसरसटाभारस्य दैत्यद्रुहः ।
व्यावल्गद्बलवद्धिरण्यकशिपुक्रोडस्थलास्फालन
स्फारप्रस्फुटदस्थिपञ्जररवक्रूरा नखाः पान्तु वः ॥ ११ ॥

सोमार्धायितनिष्पधानदशनः सन्ध्यायितान्तर्मुखो
बालार्कायितलोचनः सुरधनुर्लेखायितभ्रूलतः ।
अन्तर्नादनिरोधपीवरगलत्त्वक्कूपनिर्यत्तडि-
-त्तारस्फारसटावरुद्धगगनः पायान्नृसिंहः स वः ॥ १२ ॥

विद्युच्चक्रकरालकेसरसटाभारस्य दैत्यद्रुहः
शोणन्नेत्रहुताशडम्बरभृतः सिंहाकृतेः शार्ङ्गिणः ।
विस्फूर्जद्गलगर्जितर्जितककुम्मातङ्गदर्पोदयाः
संरम्भाः सुखयन्तु वः खरनखक्षुण्णद्विषद्वक्षसः ॥ १३ ॥

दैत्यानामधिपे नखाङ्कुरकुटीकोणप्रविष्टात्मनि
स्फारीभूतकरालकेसरसटासङ्घातघोराकृतेः ।
सक्रोधं च सविस्मयं च सगुरुव्रीडं च सान्तःस्मितं
क्रीडाकेसरिणो हरेर्विजयते तत्कालमालोकितम् ॥ १४ ॥

किं किं सिंहस्ततः किं नरसदृशवपुर्देव चित्रं गृहीतो
नैतादृक्क्वापि जीवोऽद्भुतमुपनय मे देव सम्प्राप्त एषः ।
चापं चापं न चापीत्यहहहहहहा कर्कशत्वं नखानां
इत्थं दैत्येन्द्रवक्षः खरनखमुखरैर्जघ्निवान्यः स वोऽव्यात् ॥ १५ ॥

भूयः कण्ठावधूतिव्यतिकरतरलोत्तंसनक्षत्रमाला-
-बालेन्दुक्षुद्रघण्टारणितदशदिशादन्तचीत्कारकारी ।
अव्याद्वो दैत्यराजप्रथमयमपुरीयानघण्टानिनादो
नादो दिग्भित्तिभेदप्रसरसरभसः कूटकण्ठीरवस्य ॥ १६ ॥

अन्तःक्रोधोज्जिहानज्वलनभवशिखाकारजिह्वावलीढ
प्रौढब्रह्माण्डभाण्डः पृथुभुवनगुहागर्भगम्भीरनादः ।
दृप्यत्पारीन्द्रमूर्तिर्मुरजिदवतु वः सुप्रभामण्डलीभिः
कुर्वन्निर्धूमधूमध्वजनिचितमिव व्योम रोमच्छटानाम् ॥ १७ ॥

पायान्मायामृगेन्द्रो जगदखिलमसौ यत्तनूदर्चिरर्चिः
ज्वालाजालावलीढं बत भुवि सकलं व्याकुलं किं न भूयात् ।
न स्याच्चेदाशु तस्याधिकविकटसटाकोटिभिः पाट्यमानात्
इन्दोरानन्दकन्दात्तदुपरि तुहिनासारसन्दोहवृष्टिः ॥ १८ ॥

आदित्याः किं दशैते प्रलयभयकृतः स्वीकृताकाशदेशाः
किं वोल्कामण्डलानि त्रिभुवनदहनायोद्यतानीति भीतैः ।
पायासुर्नारसिंहं वपुरमरगणैर्बिभ्रतः शार्ङ्गपाणेः
दृष्टादृप्तासुरोरस्थलदरणगलद्रक्तरक्ता नखा वः ॥ १९ ॥

इति श्री नृसिंह स्तुतिः ।

इस प्रकार श्री नृसिंह स्तुतिः भगवान नृसिंह की भक्ति और आराधना का एक महत्वपूर्ण माध्यम है। श्रद्धा एवं भक्ति के साथ इसके पाठ द्वारा भक्त भगवान की कृपा, संरक्षण और आध्यात्मिक शक्ति की प्रार्थना करते हैं।

हमारी संपादकीय टीम अनुभवी वैदिक एवं तांत्रिक साधकों का एक समर्पित समूह है। टीम द्वारा वेद, तंत्र और प्राचीन शास्त्रों का गहन अध्ययन कर प्रामाणिक एवं शास्त्रसम्मत जानकारी तैयार की जाती है। हमारा उद्देश्य साधकों तक विश्वसनीय आध्यात्मिक ज्ञान, मंत्र, स्तोत्र एवं साधना संबंधी मार्गदर्शन सरल और प्रमाणिक रूप में पहुँचाना है।

error: Content is protected !!