श्री श्रीनिवास स्तुतिः (तोण्डमान कृतम्) का संपूर्ण संस्कृत पाठ पढ़ें। तोण्डमान राजा द्वारा रचित भगवान श्रीनिवास (वेंकटेश्वर) की इस पवित्र स्तुति के श्लोक यहां उपलब्ध हैं।
श्री श्रीनिवास स्तुतिः (तोण्डमान कृतम्) भगवान श्रीनिवास अर्थात् श्री वेंकटेश्वर स्वामी को समर्पित एक पवित्र स्तुति है। यह स्तोत्र तोण्डमान राजा द्वारा रचित माना जाता है, जिसमें भगवान श्रीनिवास की करुणा, महिमा, भक्तवत्सलता एवं दिव्य स्वरूप का सुंदर वर्णन किया गया है। इस लेख में श्री श्रीनिवास स्तुतिः (तोण्डमान कृतम्) का संपूर्ण संस्कृत पाठ प्रस्तुत किया गया है।
श्री श्रीनिवास स्तुतिः (तोण्डमान कृतम्)
राजोवाच ।
दर्शनात्तव गोविन्द नाधिकं वर्तते हरे ।
त्वां वदन्ति सुराध्यक्षं वेदवेद्यं पुरातनम् ॥ १ ॥
मुनयो मनुजश्रेष्ठाः तच्छ्रुत्वाहमिहागतः ।
स्वामिन् नच्युत गोविन्द पुराणपुरुषोत्तम ॥ २ ॥
अप्राकृतशरीरोऽसि लीलामानुषविग्रहः ।
त्वामेव सृष्टिकरणे पालने हरणे हरे ॥ ३ ॥
कारणं प्रकृतेर्योनिं वदन्ति च मनीषिणः ।
जगदेकार्णवं कृत्वा भवानेकत्वमाप्य च ॥ ४ ॥
जीवकोटिधनं देव जठरे परिपूरयन् ।
क्रीडते रमया सार्धं रमणीयाङ्गविश्रमः ॥ ५ ॥
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
त्वन्मुखाद्विप्रनिचयो बाहुभ्यां क्षत्रमण्डलम् ॥ ६ ॥
ऊरुभ्यामभवन् वैश्याः पद्भ्यां शूद्राः प्रकीर्तिताः ।
प्रभुस्त्वं सर्वलोकानां देवानामपि योगिनाम् ॥ ७ ॥
अन्तःसृष्टिकरस्त्वं हि बहिः सृष्टिकरो भवान् ।
नमः श्रीवेङ्कटेशाय नमो ब्रह्मोदराय च ॥ ८ ॥
नमो नाथाय कान्ताय रमायाः पुण्यमूर्तये ।
नमः शान्ताय कृष्णाय नमस्तेऽद्भुतकर्मणे ॥ ९ ॥
अप्राकृतशरीराय श्रीनिवासाय ते नमः ।
अनन्तमूर्तये नित्यं अनन्तशिरसे नमः ॥ १० ॥
अनन्तबाहवे श्रीमन् अनन्ताय नमो नमः ।
सरीसृपगिरीशाय परब्रह्मन् नमो नमः ॥ ११ ॥
इति स्तुत्वा श्रीनिवासं कमनीयकलेवरम् ।
विरराम महाराज राजेन्द्रो रणकोविदः ॥ १२ ॥
स्तोत्रेणानेन सुप्रीतस्तोण्डमानकृतेन च ।
सन्तुष्टः प्राह गोविन्दः श्रीमन्तं राजसत्तमम् ॥ १३ ॥
श्रीनिवास उवाच ।
राजन् अलमलं स्तोत्रं कृतं परमपावनम् ।
अनेन स्तवराजेन मामर्चन्ति च ये जनाः ॥ १४ ॥
तेषां तु मम सालोक्यं भविष्यति न संशयः ॥ १५ ॥
इति श्रीवेङ्कटाचलमाहात्म्ये तोण्डमान कृत श्रीनिवासस्तुतिः ।
इस प्रकार श्री श्रीनिवास स्तुतिः (तोण्डमान कृतम्) भगवान वेंकटेश्वर की भक्ति और आराधना का एक श्रेष्ठ माध्यम है। श्रद्धा एवं भक्ति के साथ इसके पाठ द्वारा भक्त भगवान श्रीनिवास की कृपा, समृद्धि, संरक्षण तथा आध्यात्मिक उन्नति की प्रार्थना करते हैं।